महार्थमञ्जरी "यथा च विस्तृते वस्त्रे युगपद् भाति चित्रता । तथैव योगिनां धर्मसामस्त्येनैव भाति भूः ॥ " इति श्रीतन्त्रालोकस्थित्या पशुप्रमात्रायवच्छेदव्यपोहेन विश्वमेव कार्यतयानु- सन्धीयते, तदानाख्या भासेति तत्कृत्यद्वयव्यपदेश इत्यलमवान्तरेण । नटं प्रति च भूमिकात्वेन यो रामादिराभासते, स तु सम्यमिथ्यासंशय- सादृश्यादिवैलक्षण्येन संविदन्तरविषयतया सामाजिकैरनुभूयते । तटस्थै- स्तु श्रोत्रियादिभिर्नटतयैवेति । य एष इति पुराणागमादिप्रसिद्धस्य पर मेश्वरस्य स्वात्मत्वेनात्यासत्यां विद्रष्टव्यतां द्योतयन् तादृग्विमर्शोन्मेषे पर- मेश्वरसंकाशात् पुरुषं प्रति प्रथमानोऽयं भेदो वाँततूललौल्यलीलामनुभवती- त्युद्भावयति । दशा कापीत्यनेन परमेश्वरतापन्नस्यापि पुरुषस्य स्वपरामर्श- शून्यतया वेद्यवर्गानुप्रवेशाभिसन्तृत्वेन महान् खल्वस्य मोहोत्कर्ष इति शोचनीयता द्योत्यते । यदुक्तं श्रीत्रिंशिकाशास्त्रे- " पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु | क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते ! ॥" इति । यथा च व्याख्यातमाचार्याभिनवगुप्तपादै: – 'पुरुषस्य हि संवेद्य- रूपस्यैव परिमितस्य वेद्यराशौ गणनमि'ति । तस्यै च "सम्पन्नोऽस्मि कृशोऽस्मि वित्तारोऽस्मि मोदमानोऽस्मि । प्राणिमि शून्योऽस्मीति हि षट्सु पदेष्वस्मिता दृष्टा ॥" इति श्रीविरूपाक्षपञ्चाशिकाप्रक्रियया देहप्राणायुपश्लेषवशाद् बहुत्वमप्यु- पपद्यते । यत एतदालम्बनेन ब्रह्मा चन्द्रः सकलं इति प्रमातृभेदः परि- स्फुरति । एतेन तस्य स्वर्ग नरकाद्युपभोगौचित्यं व्याख्यातम् | यथा श्री- शिवदृष्टौ - - “क्रीडया दुःखवेद्यानि कर्मकारीणि तत्फलैः । सम्पत्स्यमानानि तथा नरकार्णवगहरे || निवासीनि शरीराणि गृह्णाति परमेश्वरः ।” १- 'स्थे तु थ्रो' ख. ग. पाटः २. 'ज्या', ३. 'वातूललवलौ', 'र्गा, भि क. पाठः ५. 'स्य स', ६, 'पद्येत । य' ग. पाठः. ७. 'ला' क. ख, पाठ:. ८. 'म्भ' ग. पाठः.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७२
दिखावट