तृतीयाध्याये चतुर्थः पादः । विधीयते, अपि तु प्राणमात्रस्यान्नमिदं सर्वमिति यच्चिन्तनं विहितं तत्स्तुत्यर्थं स- कीत इति ॥ २८ ॥ अबाधाच्च ॥ २९ ॥ भक्ष्याभक्ष्यविवेकशास्त्रस्याबाधाच्चार्थवादमात्रमित्यर्थः । अन्यथा सामान्य- शास्त्रं विशेषपरतया नीयमानं बाधितं स्यादिति भावः ॥ २९ ॥ अपि च स्मर्यते ॥ ३० ॥ - अपि चापत्काले विदुषोऽविदुषश्च सर्वान्नभक्षणं स्मर्यते – 'जीवितात्यय- मापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा' ॥ इति, ‘मद्यं नित्यं ब्राह्मणो वर्जयेदिति च ॥ ३० ॥ स्मृतिमूलभूतां श्रुतिमप्याह- शब्दश्चातोऽकामकारे ॥ ३१ ॥ अस्याभक्ष्यभक्षणस्य प्रतिषेधकः 'तस्माद् ब्राह्मणः सुरां न पिबेद्' इत्येवं- रूपशब्दश्चाकामकारे स्वेच्छाकृतप्रवृत्तिनिरासे श्रूयते । अतः प्राणविदः सर्वान्ना- नुज्ञानमर्थवादमात्रमिति सिद्धम् ॥ ३१ ॥
- ८ आश्रमकर्माधिकरणम् *
पूर्वं यथा सर्वान्नानुमतेः शास्त्रान्तरविरोधात् स्तुतित्वमुक्तं, तथा 'यावज्जी- वमि’त्यादिकर्मनित्यत्वशास्त्रविरोधाद्यज्ञादीनां ज्ञानसाधनत्वश्रुतेः स्तुतित्वमस्त्विति दृष्टान्तसङ्गत्येदमाह - विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥ अत्र पूर्वपक्षे विविदिषावाक्यस्य विवक्षितार्थत्वासिद्धिः, सिद्धान्ते खादिरवत् कर्मणामुभयर्थत्वसम्भवात् तत्सिद्धिरिति फलभेदः । 'सर्वापेक्षा' (ब्र. सू. ३-४- २६) इत्यत्र स्वस्वाश्रमनित्यकर्मणां तत्त्वज्ञानसाधनत्वमुक्तम् । तानि नित्यकर्माणि अमुमुक्षुणा कर्तव्यानि न वेति सन्देहे न कर्तव्यानीति पूर्वः पक्षः । सिद्धान्तस्तु अमुमुक्षुणाप्याश्रमकर्मावश्यं कर्तव्यमेव 'यावज्जीवमि' त्यादिना विहितत्वादि- त्यर्थः ॥ ३२ ॥ नन्वेवं सति कर्मणां विद्यार्थत्वं न स्यादित्यत आह -- १. 'र्थसं' कपुस्तके पाठ:.