पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकाय सहकारित्वेन च ॥ ३३ ॥ सह मिलित्वा चित्तशुद्धिद्वारा विद्यां कुर्वन्तीति सहकारीणि कर्माणि, तेषां भावस्तत्त्वम्, तेन विद्यार्थत्वेन नित्यकर्माणि कर्तव्यानि, यज्ञादिश्रुत्या तदर्थत्वेन तेषां विहितत्वादेवेत्यर्थः ॥ ३३ ॥ ननु कर्मकाण्डस्थनित्याग्निहोत्रेभ्यो भिन्ना एव यज्ञादयो विविदिषावाक्ये विद्यासंयुक्ततया विधीयन्ते, प्रकरणभेदस्य भेदकत्वात् । कथं तेषामुभयार्थत्वामि- त्यत आह - सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥ सर्वथापि नित्यत्वेन विद्यार्थत्वेन चानुष्ठेया यज्ञादयस्त एव, न भिन्नाः । कुतः, उभयलिङ्गात् । 'यज्ञेन विविदिषन्ती' ति श्रुतिलिङ्गाद्, 'अनाश्रितः कर्मफलं कार्य कर्म करोति यः' (गी. ६-१) इति स्मृतिलिङ्गाचेत्यर्थः ॥ ३४ ॥ किञ्च - अनभिभवं च दशर्यति ॥ ३५ ॥ ब्रह्मचर्यादिसाधनसम्पन्नस्य रागादिक्लेशैरनभिभवम् 'एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते' (छा. ८-५-३) इत्याद्या श्रुतिर्दर्शयति । अनेन सूत्रेण ब्र- ह्यचर्याद्याश्रमकर्मणां सहकारित्वमेव दृढीकृतम् ॥ ३५ ॥

  • ९ तद्द्दृष्ट्यधिकरणम् *

पूर्व यथा यज्ञादिश्रुत्याश्रमकर्मणामेव ज्ञानसाधनत्वविधानादाश्रमिणामधि- कारो, न तथा विधुराणामधिकारः तत्कृतकर्मणां ज्ञानसाधनत्वाभावादिति प्रत्यु- दाहरणसङ्गत्येदमाह-- अन्तरा चापि तु तद्द्दष्टेः ॥ ३६ ॥ अत्र पूर्वपक्षे अनाश्रमिकर्मणां जपादीनां विद्यासाधनत्वासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलभेदः । अत्र विधुराणां किं ब्रह्मविद्यायामधिकारोऽस्ति न वेति सन्देहे नास्तीति पूर्वः पक्षः । सिद्धान्तस्तु अन्तरा आश्रममन्तरा विना वर्तमाना- नामप्यस्त्यधिकारः । कुतः, तद्द्दष्टेः । तस्य ब्रह्मविद्याधिकारस्याना श्रमिणां रैका- १. 'तत्कर्म' खपुस्तके पाठ:. २ ' श्रीमान्तरं वि' खपुस्तके पाठः