ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां अत्र पूर्वपक्षे द्विरूपं ब्रह्म ध्येयं सिद्धान्ते निर्विशेषमिति फलभेदः । अत्र 'सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः' (छा. ३-१४-२) इत्यादिना ब्रह्मणः सवि- शेषत्वं श्रूयते, 'अस्थूलमनणु' (बृ. ३-८-८) इत्यादिना निर्विशेषत्वम् । तत्र कि- मुभयश्रुत्यनुरोधादुभयरूपं ब्रह्म, उतैकरूपम् । एकरूपमित्यत्रापि सविशेषं निर्वि- शेषं वेति सन्देहे द्विरूपमिति पूर्वः पक्षः । सिद्धान्तस्तु न तावत् परस्य ब्रह्मण उभयलिङ्गमुभयरूपत्वं सम्भवति, सत्यस्य वस्तुनो द्वैरूप्यायोगात् । न ह्येकमेव वस्त्वेकदा तद्वत् तदभाववच दृष्टम् । एतेन मूर्च्छावस्थादृष्टान्तो वैलक्षण्यान्निर- स्तः । नापि स्थानत उपाधित उभयरूपत्वं तात्त्विकं युक्तम् अग्निसंयोगमात्रेण जलस्योष्णस्य तत्स्वभावत्वादर्शनात् । अत एकरूपत्वमेव ब्रह्मणः । हि यस्मात् सर्वत्र सर्वेषु वेदान्तेषु 'अशब्दमस्पर्शमरूपम्' (क. ३१५. मुक्ति. २-७२) इ त्यादिषु ब्रह्मपरेषु सविशेषत्वनिरासेन निर्विशेषमेवैकरूपं ब्रह्मोपदिश्यत इ- त्यर्थः ॥ ११ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥ १०४ ननु न निर्विशेषमेव ब्रह्म, कुतः, भेदात् प्रतिविद्यं ब्रह्मण आकारभेदेन भेदात् कस्याञ्चित् विद्यायां चतुष्पाद ब्रह्मोपदिश्यते, कस्याश्चित् षोडशकलं, क- स्याञ्चित् त्रैलोक्यशरीरं वैश्वानराख्यम् | तस्मात् सविशेषमपि श्रुतिसामर्थ्यादङ्गी- कर्तव्यमितिचेन्न, प्रत्येकं प्रत्युपाध्यतद्वचनादभेदवचनात् । 'यश्चायमस्थां पृथि- व्यां तेजोमयोऽमृतमयः पुरुषः' (बृ. २-५-१) इत्यादिश्रुतौ ब्रह्मणः सर्वोपाधिषु पृथिव्यबादिष्वभेदश्रवणादित्यर्थः ॥ १२ ॥ अपि चैवमेके ॥ १३ ॥ अपि चैके शाखिनः ‘मृत्युमाप्नोति य इह नानेव पश्यति' 'नेह नानास्ति किञ्चन' (क. ४-११) इत्येवं भेदनिन्दापूर्वकमभेदमेव ब्रह्मणः समामनन्ती- त्यर्थः ॥ १३ ॥ ननु सगुणनिर्गुणपरश्रुतिद्वये सति कथं निर्गुणे ब्रह्मणि पक्षपातः । तत्राह- अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ रूपहीनं निर्विशेषमेव ब्रह्मावधारयितव्यं न सविशेषं, कुतः, 'अस्थूलमि' १. 'षमेवेति' खपुस्तके पाठः. २. 'न चैक' खपुस्तके पाठः,
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/११८
दिखावट