सामग्री पर जाएँ

पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां योज्यादृष्टनियमहेतवो भविष्यन्तीत्यत आह - अभिसन्ध्यादिष्वपि चैवम् ॥ ५२ ॥ अभिसन्ध्यादिष्वपि साधारणमनस्संयोगसाध्येण्यदृष्टनियमहेतुत्वाभाव इत्यु- क्तदोषस्तदवस्थः ॥ ५२ ॥ प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥ नन्वात्मनां विभुत्वेऽपि स्वस्वशरीरावच्छिन्न एवात्मप्रदेशे मनस्संयोग इ- त्यभिसन्ध्यादिनियम इति चेन्न सर्वात्मनां सर्वशरीरेष्वन्तर्भावादस्यात्मन इदं श- रीरमिति नियमाभावात् प्रदेशकल्पना न सम्भवतीत्युक्तसङ्करस्तदवस्थ एव । अस्मत्पक्षे जीवभेदस्याविद्यकत्वेन न सङ्करः । तथा चाविद्यानिमित्तजीवभावव्युदा- सेन ब्रह्मभावमेव जीवस्य प्रतिपादयतस्तत्त्वमस्यादिश्रुतिजातस्याविद्यकभेदानुवाद- श्रुतिजातेन न विरोध इति सिद्धम् । तदेवं भूतभोक्तृविषयश्रुतीनां मिथो विरोध- व्यासेधेन प्रामाण्याद् ब्रह्मणि समन्वयः सिद्ध इत्यतिशोभनम् ॥ १३ ॥ अस्मिन् पादे सप्तदशाधिकरणानि । सूत्राणि त्रिपञ्चाशत् । इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां द्वितीयाध्यायस्य तृतीयः पादः । अथ चतुर्थः पादः । १ प्राणोत्पत्त्यधिकरणम् * इत्थं पूर्वपादे भूतभोक्तृश्रुतिविरोधं विधूयाधुना भौतिकेन्द्रियादिश्रुति- बिरोधं परिहर्त्तं पादान्तरमबतारयन् पूर्वाधिकरणे कर्तृस्वरूपाबधारणेन बुद्धिस्थानां तदुपकरणानामिन्द्रियाणामुत्पत्तिं साधयतीति बुद्धिस्थसङ्गत्येदमाह- तथा प्राणाः ॥ १ ॥ अत्र च ‘एतस्माज्जायते प्राण' (मु. २-१-३) इत्यादीन्द्रियोत्पत्तिश्रुतेः 'ऋषयो वाव तेऽग्रेऽसदासीद्' इत्याद्या प्रागुत्पत्तेरिन्द्रिय विरोधोऽस्ति न वेति सन्देहे विरोधोऽस्तीति पूर्वः पक्षः । सिद्धान्तस्तु तथा प्राणा: 'एतस्मा- ज्जायत' इत्युदाहृतवाक्यस्थाकाशादिवत् प्राणा इन्द्रियाणि जायन्ते उत्पत्तिश्रु- तेरविशेषादित्यर्थः ॥ १ ॥