पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्याये तृतीयः पादः । स्मरन्ति च ॥ ४७ ॥ 'तत्र यः परमात्मासौ स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ||' इत्यादिना व्यासादय ईश्वरस्य सांसारिक दुःखासंस्पर्शित्वं स्मरन्तीत्यर्थः ॥ ४७ ॥ ननु 'नान्योऽतोऽतिद्रष्टा' (बृ. ३-७-२३) इत्यादिनात्मभेदमात्रनिषेधात् कथं ‘मित्रं सेव्यं’ ‘शत्रवः परिहर्तव्या' इत्याद्यनुज्ञापरिहारौ स्यातामित्यत आह-- अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ ४८ ॥ उक्तावनुज्ञापरिहारौ सर्वत्रात्मनोऽखण्डैकरसत्वेऽपि देहतादात्म्यसम्बन्धात् सङ्गच्छेते ज्योतिरादिवद्, यथा ज्योतिषोऽमेरेकत्वेऽपि श्मशानसम्बन्ध्यमिः परि- हार्यो नेतरः, तद्वदात्मापीत्यर्थः ॥ ४८ ॥ नन्वेवमपि स्वाम्येकत्वात् कर्मफलसङ्करो दुर्वार इत्यत आह असन्ततेश्याव्यतिकरः ॥ ४९ ॥ कर्मफलसम्बन्धस्याव्यतिकरः असङ्करः, कुतः, असन्ततेः उपाधिपरिच्छि- नस्यात्मनः सर्वैः शरीरैरसम्बन्धादित्यर्थः ॥ ४९ ॥ किञ्च- आभास एव च ॥ ५० ॥ आभास एवैष जीवः परस्यात्मनः सूर्यप्रतिविम्बवत् । ततश्च यथैकस्मिन् प्रतिबिम्बे कम्पमाने प्रतिबिम्बान्तरं न कम्पते तथैकस्मिन् जीवे कर्मफलसम्ब- न्धिनि न जीवान्तरस्य तत्सम्बन्ध इति सङ्करः सुपरिहरः । स्वाभाविकात्मनाना- त्ववादे तु कर्मफलसङ्करो दुर्वार इति दिक् ॥ ५० ॥ ननु नानात्मवादेऽदृष्टनियमात् कर्मफलनियम इति चेत् तत्राह- अदृष्टानियमात् ॥ ५१ ॥ साङ्ख्यमते प्रधानसमवेतमदृष्टम् | तस्य सर्वात्मसाधारण्यात् स दोषस्तदव- स्थः । न्यायमतेऽप्यदृष्टहेतुमनस्संयोगस्य सर्वात्माविशेषादिदमस्यादृष्टमिदमस्य ने त्येवंरूपस्यादृष्टनियमस्याभावात् फलानियम इत्यर्थः ॥ ११ ॥ नन्वहमिदं फलं प्राप्नुयामित्यभिसन्ध्यादयः प्रत्यात्मनियताः सन्तः स्वप्र-