सामग्री पर जाएँ

पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः पादः ।

१ रचनानुपपत्त्यधिकरणम् ? इत्थं मुमुक्षोः सम्यग्ज्ञानोत्पादके त्रय्यन्तसमन्वये परपरिकल्पितदोषनिरासेन स्वपक्षः स्थापितः । अधुना मुमुक्षोर्निर्दोषेऽद्वैतदर्शने निर्विचिकित्सप्रवृत्तिसिद्धये प- रमतदूषणप्रधानः पादोऽयमारभ्यते । एवञ्च समन्वयविरोधनिरासेन स्वपक्षस्थाप- नपरप्रथमपादेनास्य परमतनिरासनपरस्य परपादस्योपजीव्योपजीवकभावः सङ्गतिः । ‘सर्वधर्मोपपत्तेश्च' (२. १.३७) इत्यनेन ब्रह्माण कारणधर्माणामुपपत्तिरुक्ता । तेषां प्रधान एवोपपत्तिः किं न स्यादित्याक्षिप्य समाधीयत इत्याक्षेपलक्षणावा- न्तरसङ्गत्येदमधिकरणमारभते- रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥ अत्र पूर्वपक्षे सांख्ययुक्तिविरोधात् समन्वयासिद्धिः सिद्धान्ते तदविरोधात् तत्सिद्धिरिति फलभेदः । प्रधानमचेतनं जगदुपादानमिति साङ्ख्यसिद्धान्तोऽत्र विषयः । स किं प्रमाणमूलो भ्रान्तिमूलो वेति सन्देह जगत् सुखदुःखमोहात्मक- वस्तूपादानकं तदन्वितत्वान्मृदन्वितघटवदित्यनुमानेन यत्सुखाद्यात्मकं सिद्धं तदेव त्रिगुणात्मकं प्रधानम् । अतः प्रामाणिकः सांख्यसिद्धान्त इति पूर्वः पक्षः । नोक्तानु- मानसिद्धं प्रधानं जगदुपादानं, कुतः, रचनानुपपत्तेः अचेतनात् स्रष्टव्यज्ञानशू- न्यात् प्रधानाद नेकविधविचित्रजगद्रचनानुपपत्तेरित्यर्थः । लोके विचित्रप्रासादादिरच- नाया बुद्धिकुशलशिल्प्यादिकार्यत्वदर्शनादिति भावः । सूत्रे चशब्देन हेतोः स्व- रूपासिद्धिं समुच्चिनोति । सुखादीनामान्तरत्वप्रतिपत्तेस्तदन्वितत्वं जगतोऽसि- द्धम् । तस्मान्न प्रामाणिकः सांख्यसिद्धान्त इति ॥ १ ॥ यत्तु शक्तितः प्रवृत्तेरिति तत्राह- प्रवृत्तेश्च ॥ २ ॥ लोके ह्यचेतनरथादिप्रवृत्तेश्चेतनाधीनत्वदर्शनात् प्रधानस्य साम्यावस्थाप्र- च्युतिरूपप्रवृत्तेश्चेतनप्रेरणमन्तरेणानुपपत्तेरित्यर्थः ॥ २ ॥ अन्यत्र व्यभिचारमाशङ्कय परिहरति- पयोऽम्बुवच्चेत् तत्रापि ॥ ३ ॥