पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां नत्वचेतनत्य स्वयं प्रवृत्तिर्दृश्यते यथा क्षीरं वत्सविवृद्धये स्वयमेव प्रव- तेते, यथा वा जलं स्वयमेव स्यन्दते तद्वत् प्रधानमपि स्वयमेव प्रवर्तते इति चेत्, तत्रापि परमात्य प्रेरकः श्रूयते 'योऽप्सु तिष्ठन्' (बृ. ३-७-४) इत्यादिना । तथा च पयोऽम्युनोः पक्षत्वान्न व्यभिचार इति भावः ॥ ३ ॥ जन्येवर धर्माद्यपेक्षा प्रधानस्य प्रवृतिः स्वावित्याशङ्कयाह- व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ४ ॥ साङ्ख्यमते गुणाः साम्येनावस्थिताः प्रधानं तद्व्यतिरेकेण सहकार्यन्तर- स्थानवस्थितेः । पुरुषस्य तु असङ्गोदासीनत्वेन प्रवृत्तौ निवृत्तौ वानपेक्षत्वाभ्युप- गमादित्यर्थः ॥ ४ ॥ ननु सहकार्यभावेऽपि प्रवृत्तिरन्यत्र दृष्टेत्यत आह - अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥ तृणादिकं निमित्तान्तरनिरपेक्षमेव क्षीराकारेण परिणमते । तद्वत् प्रधानम- पीति चेन्न । कुतः, अन्यत्राभावाद् धेन्वादेरन्यत्र बलीवर्दादौ तृणादेः क्षीरभावस्या- भावादित्यर्थः । धेन्वादिसापेक्षमेव तृणादिकं क्षीरीभवति निरपेक्षत्वे बलीवर्दादा- वपि क्षीरभावप्रसङ्गादिति भावः ॥ ५ ॥ प्रधानस्य स्वतः प्रवृत्तिमुपेत्यापि दूषयति- अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥ प्रधानस्य स्वतः प्रवृत्त्यभ्युपगमेऽपि पुरुषार्थस्यापेक्षाभावप्रसङ्गादित्यर्थः । न चेष्टापतिः, प्रधानमचेतनं चेतनस्य पुरुषार्थ साधयितुमेव प्रवर्त्तत इति स्वाभ्यु- पग विरोधादिति भावः ॥ ६ ॥ ननु पुरुष एव स्वयम प्रधानप्रवर्तकः स्यादित्याशङ्कयाह- पुरुषाश्मवदिति चेत् तथापि ॥ ७ ॥ लोके यथा पङ्गुः पुरुषः स्वयमप्रवर्तमानोऽप्यन्यमन्धं प्रवृत्तिशक्तिमन्तं प्र- वर्त्तयति, यथा वायस्का तोऽश्मा सन्निधिमात्रेणायः प्रवर्त्तयति, एवं पुरुषः प्रव- तक इति चेत्, तथापि प्रधानस्य पुरुषप्रर्यत्वे स्वातन्त्र्याभ्युपगमविरोधः, पुरुषस्य प्रवर्तकत्वे कौटस्थ्यहानिरित्यादिदोषागामनिर्मोक्षः । ब्रह्मणस्त्वाविद्यकं प्रवर्त्तकत्व-