ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां रूपोपन्यासाच्च ॥ २३ ॥ 'अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ' (मु. २. १. ४) इत्यादिसर्वकार्यात्मकरू- पस्योपन्यासात् परमात्मैव भूतयोनिरिति वृत्तिकारमतम् । 'पुरुष एवेदं विश्वं कर्म' (मु. २. १. १०) इत्यादिसर्वात्मकरूपोपन्यासात् परमात्मैव भूतयोनिरिति भग- वत्पादीयमतम् ॥ २३ ॥ २० ७ वैश्वानराधिकरणम् * पूर्व रूपोपन्यासप्रसङ्गात् त्रैलोक्यदेही वैश्वानरोऽत्र स्मृतो विचार्यत इति प्रसङ्गसङ्गत्येदमाह । यद्वा पूर्वमुपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्व- ज्ञत्वादिलिङ्गेन ब्रह्मनिष्ठत्वमुक्तम् । तद्वदत्राप्युपत्रमस्थसाधारणवैश्वानरशब्दस्य वाक्यशेषस्थहोमाधारत्वलिङ्गेन जाठरादिनिष्ठत्वमास्त्विति दृष्टान्तसङ्गत्येदमाह - वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ --- अत्र पूर्वपक्षे जाठरादेरुपास्तिः सिद्धान्ते ब्रह्मण इति फलभेदः । छान्दोग्ये (५. ११. १, ६)वैश्वानरविद्यायां 'को न आत्मा किं ब्रह्म' इति । 'आत्मानमेवेदं वैश्वानरम्' इति चोपक्रम्याम्नायते – 'यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते' इत्यादि । तत्र किं वैश्वानरो जाठराग्निः, उत भूताग्निः, उतादि- त्यादिदेवताः, उताहो शारीरः, आहोस्वित् परमेश्वर इति विशये जाठरादीति पूर्वः पक्षः । सिद्धान्तस्तु वैश्वानरः परमात्मैव । कुतः, साधारणशब्द विशेषात् साधा- रणशब्दयोर्विशेषस्तस्मादित्यर्थः । जाठरभूतामचादित्यदेवतासु साधारणो वैश्वान- रशब्दः । जीवपरमात्मनोः साधारण आत्मशब्दः । तयोर्वैश्वानरात्मशब्दयोरुभयत्र साधारणयोरपि सतोः परमात्मपरत्व एव विशेषोऽवगम्यते । 'तस्य ह वा एतस्य वैश्वानरस्य मूर्धैव सुतेजाः' (छा. ५. १८. २) इत्यादावुक्तद्युमूर्धत्वादेः सर्वा- त्मकपरत्व एवोपपन्नतरत्वात् । तस्माद् वैश्वानरः परमात्मैव न जाठरः चरम- श्रुतहोमाघारत्वापेक्षया प्रथम श्रुतधुमूर्धत्वादेर्बलवत्त्वादिति सिद्धम् ॥ २४ ॥ स्मृत्या च श्रुत्यर्थः शक्यो निर्णेतुमित्याह- स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥ वैश्वानरस्य परमात्मपरत्वे स्मर्यमाणं 'यस्याग्निरास्यं द्यौर्मूर्धा' इति स्मृ- त्युक्तं त्रैलोक्यात्मकं रूपमनुमानं स्याद् अनुमापकलिङ्ग स्यादित्यर्थः । एवञ्च
पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/३४
दिखावट