७६ व्यवहारकाण्डम् पत्र नास्ति, अधिकृतानां विरोधात्, विरोधो न तिरश्वाम् । (१) कुरुका पिशकाश्मीरादिदेशो नियतावधिः जन- ! धर्मः, जननिवासबन्धेनाभ्यनुज्ञानात्, आम्नाये विरोधोऽ. पदः । तत्र भवा धर्मा जानपदाः । किञ्च, तत्र भवन्ति ये, तद्देशव्यपदेशैरनुष्ठीयन्ते । अथवा तन्निवासिनो जनास्तावत् 'मञ्चा: क्रोशन्ति' इतिवत् जनपदशब्दे- नाभिधीयन्ते । तेषामनुष्ठेयाः जानपदाः । 'तस्येदमिति तद्धितः । जातेजनपदाः इति षष्ठी- समासः । जातिमात्रविषया देशधर्मा राज्ञा परिपाल नीयाः । समीक्ष्य विचार्य किमानायैर्विरुद्धा अथं न, तथा पीडाकराः कस्यचिदुत न, एवं विचार्य, येऽविरुद्धा स्तान्प्रतिपादयेदनुष्ठापयेदित्यर्थः । तथा च वक्ष्यति 'सद्भि- राचरितं यत्स्यात्' इति । अथवा जातयश्च ते जान- पदाश्चेति विशेषणसमासः | जातिशब्देन च नित्यत्वं लक्ष्यते । प्रशंसामात्रं चैतत् | देशधर्मा अपि शास्त्रा- विरुद्धा नित्याः ते नित्यवदनुष्ठेयाः, दृष्टार्थाः गोप्रचारो- दकरक्षणादयः । यथा ग्रामीणा:- 'अत्र प्रदेशे गावो न चारणीया' इति समयमाश्रयन्ति कस्यचित् कार्यस्य सिद्धयर्थम्, तत्र यो व्यतिक्रामति स राज्ञा दण्ड्यः । अथवा जनपदे भवा जानपदाः देशनिवासिन उच्यन्ते । जात्या जानपदा जातिजानपदाः । जातिर्जन्मोत्पत्तिरिति यावत् । एतेन देशसंबन्धस्य पुरुषाणां नित्यता लक्ष्यते । ये तद्देशजास्तद्देशाभिजनास्तन्निवासिनश्च गृह्यन्ते तेषां सर्व विशेषण विशिष्टानामनिदंप्रथमतो जाता ये धर्मास्ते जाति- जानपदशब्देनोच्यन्ते । 'वृद्धाच्छे' तद्धिते प्रसक्ते छान्द सत्वादणेव कृतः । अथवाऽभेदोपचारात्पुरुषशब्दस्त संबन्धिषु धर्मेषु प्रयुक्तः । एतेनायं देशनियमो धर्माणां स एवंविधात्पुरुषात् प्रतिद्रष्टव्यः । एते हि देशधर्मा देशानां न पुनरार्याणाम् । न हि तिर्थक्समानधर्माणोऽन्यत्रानधि कृताः स्वसमाचारप्रसिद्धं धर्ममनुतिष्ठन्तः मातृविवाहादि, सार्वभौमेन निवारणीयाः । स्वदेशाचारवतां तेषां जाति (तथैव च) पाद (पाल); गोरा. जातिजानपदान्धर्मान् (जाति- धर्मान् जानपदान्); ममु., मच. अनयोरपि गोरावत् पाठः; स्मृच. २९ णी (णि ) धर्मवित् ( शाश्वतान् ) स्वधर्मं (स्वे वर्गे); पमा.४६ पूर्वार्ध स्मृचवत्, स्वधर्म (सवणें); व्यनि. पाद (पाल); स्मृचि. ६ धर्म (धर्मान्); व्यसौ. ६ जाति (इति) प्रतिपाद (परिपाल); व्यप्र. २१ धर्मवित् (तथैव च ) पाद (पाल); व्य. १३ व्यप्रवत् ; प्रका. १७-१८ स्मृचवत्; समु. १३ पूर्वार्धे स्मृचवत्, प्रतिपाद (परिपाल). व्यक.८; ननु 'अहिंसा सत्यमक्रोधः शौचमिन्द्रियसंयमः' इति प्रतिलोमाधिकारेणैवोक्तम् । म्लेच्छाश्चाप्रतिलोमा एव, तत्र यदि मातृविवाहे मूत्रोत्सर्गे चोदकशुद्धयभावे न तुष्यति क इन्द्रियसंयमः कीदृशं वा शौचमिति । उक्त- मेतत् । आर्यावर्तिनामेते धर्माः शौचादयः । चातुर्वर्ण्य तु तद्देशनियमो धर्माणां नास्ति । केचिददृष्टार्था देश- धर्मा इति वश्यामः । एककार्यापन्ना वणिक्कारुकुसीदि चातुर्विद्यादयः, तेषां धर्माः श्रेणिधर्माः । यथा केचन वणि- महत्तरा वचनेन परिच्छिन्नं राज्ञो भागं प्रयच्छन्ति, इमां वाणिज्यां वयमुपजीवाम, एष ते राजभागोऽस्माकं यावला. भोऽस्तु न्यूनोऽधिको वा । तत्र राज्ञाऽभ्युपगते वाणिज्ये लाभातिशयार्थी राष्ट्राविरोधिनीं चेतरेतरव्यवस्थां कुर्वन्ति, इदं द्रव्यमियन्तं कालमविक्रेयमयं रोजोपानयनार्थो दण्डः पतति देवतोत्सवार्थों वा, तत्र यदि कश्चिद् व्यति- क्रामति स एवं श्रेणीधर्म व्यतिक्रामन् दण्ड्यः । कुलधर्मा इति । कुलं वंशः । तत्र प्रख्यातमहिम्ना पूर्वजेन धर्मः प्रवर्तितो भवति योऽस्मद्वंशजः कुतश्चन धनं लभेत स नादत्वा ब्राह्मणेभ्योऽन्यत्र विनियुञ्जीतेला- दयो धर्माः । तथा, सति योग्यत्वे य एवं पूर्वपुरुषाणां याजकः कन्यादिसंप्रदानभूतो वा स एव कार्यः । तद तिक्रामन् राज्ञाऽनुष्ठापयितव्यः । एतेषां च सामवायिक - त्वादधर्मत्वशङ्कया पुनर्वचनम् | न चायं संविद्व्यतिक्रम इति वश्यामः । मेधा. (२) जातिधर्मान् अध्ययनादीन् जानपदांच नियत- देशव्यवहारान् अविरुद्वान् वणिक्कर्षकादिगतान् श्रेणी- धर्मान् कुलधर्माश्च प्रतिनियतकुलस्थितान् ज्ञात्वा यः स्वधर्मस्तं तथा तत्र स्थापयेत् । अतश्च तद्विरुद्धव्यवहा रिपु वादिनं निगृहीयात् । गोरा. (३) जातिर्ब्राह्मणादिः, जनपदोऽनेकग्रामसमुदाय: तद्वासिनो जानपदाः तत्संगतान् । श्रेणी पाषण्डवणिगा- दिगणः । कुलं वसिष्ठकुलं इत्यादि तन्नियतान्धर्मान् समीक्ष्य निरूप्य | मवि. (४) श्रेणिधर्माः वणिक्कारुकादीनां स्वे स्वे वर्गे इद- १ कुरु. २ राज्ञो. ३ कार्यात्.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१५४
दिखावट