दर्शनविधिः नुमानेनापीत्याह- यथा नयत्यसृक्पातैः इति । पदं निर्णयम् । नन्द. वस्त्वात्मसाक्षिदेशकालरूपाणि दर्शनसमयेऽवधार्याणि सत्यमर्थ च संपश्येद् आत्मानमथ साक्षिणः । देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥ (१) व्यवहारविधौ व्यवहारकर्मणि, स्थितः प्रवृत्तो, न केवलं व्यवहाराणि संपश्येत्, यावदेतदपरं सत्यादि (?) तत्र सत्यस्य दर्शनम् । यद्यप्यर्थिप्रत्यर्थिनोरन्यतरेण शालीनतया परिपूर्णाक्षरं नाभिहितं तथापि यदि राजा प्रमाणान्तरतः पूर्वोक्ताद्वाऽनुमानादेव कथञ्चिदीदृशोऽय मर्थ इति निश्चेतुं पारयेत् तदा तदाश्रयेन्नोपेक्षेत, अनेनैतन्न सर्वमुक्तमिति । तदुक्तं - 'छलं निरस्य भूतेषु व्यवहारा- नयेन्नृप' इति ( यास्मृ. २११९ ) | अर्थस्य दर्शनम् । अर्थशब्दो धनवचनः प्रयोजनवचनो वा । तत्र यदि महान्तमर्थमासादयेत्तदा त्यत्तत्वाऽप्यन्यानि राजकार्याणि नोद्विजेत् व्यवहारेक्षणं कुर्यादेव | अथ वा यदि कश्चिद् ब्रूयात्साक्षिभिरर्थ एतस्माद् गृहीतोऽन्येन वा सभ्येनै, तत्र निरूपयितव्यम् । यदेतद्व्यवहारपदं यदि स्वल्पं, न संभ- वति धनग्रहणम् । अथ गुरु सभ्याः साक्षिणश्च दैन्यं गतास्तदा संभावनीयम् । प्रमाणान्तराच्च निश्चेतव्यम् । एतच्चात्मानं साक्षिणं कृत्वा गवेषणीयम् । एतदुक्तं भवति । कण्टकशोधनन्यायेन चौरचारयेत् । अथवा आ त्मानं संपश्येदात्मनोऽवस्थां संपश्येत् कोशक्षयं महाकोशतां वा । अस्मिन्पक्षे साक्षिण इति स्वतन्त्रं पदम् । देशस्य दर्श- नम् । क्वचिदल्पोऽप्यथ महत्त्व मामादयति । महानपि योऽ- न्यत्र सैन् कचित् लघुर्भवतीति । एतद्देशस्य दर्शनम् । एवं कालोऽपि द्रष्टव्यः । रूपं व्यवहारवस्तुस्वभावः । तस्य गुरुलघुतां पश्येदिति । अन्यैस्तु व्याख्यातम्, सत्यार्थयो: साल्गुतां पश्ये- दात्मानं साक्षिणं कृत्वा । एतदुक्तं भवति- अर्थात्सत्यं गुरुत्वेन महाप्रयोजनत्वादुभयलोकसाधनरूपतया आश्र- यितव्यम् । अर्थस्त्यक्तव्योऽसारत्वात् । देश: स्वर्गादिः (१) मस्मृ.८।४५ ख. पुस्तके साक्षिणम् इति पाठ:; व्यक. ६; स्मृचि. ६ ; व्यसौ.५ थं च (थेन) णः (णम्) रूपं च कालं (कालं च रूपं); समु.१०. १ साक्षिरर्थ २ सये. ३ सत्कविर् ४ फलतां. ७५ सत्यसमाश्रयप्राप्यः | कालश्चिरं तत्र वासः । रूपं स्वरूपं सुन्दरं मनोहरम् । एतदेव विपरीतम्, सत्यत्यागेन केव लार्थसमाश्रयणात् । +मेधा. (२) व्यवहारकर्मप्रवृत्तो राजा सत्यं दृष्टादृष्टमुखहेतुतया संपश्येत् । अर्थ च सारासारत्वेन, आत्मानं च सदसत्क- र्मणा, देशं च समनन्तरराजान्तरविहारं, कालं च जीवि तसंबन्धबलं, रूपं चेदं व्याधिजराभोज्यप्रायं लोभादिनाऽ- स्खलनार्थ संपश्येत् ।
- गोरा.
(३) अर्थ दण्डादिसिद्धम् । आत्मानं राजानं पश्येत् । ततो राजवृत्तमनुगच्छेत्तथा साक्षिणो देशादींच संपश्येत् प्रयत्नेनानुसंदध्यादित्यर्थः । देशं अत्रायमाचार इति । कालं अत्रैतद्योग्यमिति । रूपं अर्थप्रभृतीनामा- कारम् । मवि. (४) व्यवहारदर्शनप्रवृत्तो राजा छलमपहाय सत्यं पश्येत् । तथार्थं च । अर्शआदित्वान्मत्वर्थीयोऽच् । अर्थवन्तं गोहिरण्यादिधनविषयस्थं व्यवहारं पश्येत्, 'न त्वहमनेनाक्षिनिकोचनेनोपहसित' इत्यादिस्वल्पा- पराधम्, आत्मानं च तत्त्वनिर्णये स्वर्गादिफलभागिनं, साक्षिणः सत्यवादिनः, देशं कालं च देशकालोचितं स्वरूपं व्यवहारस्वरूपं गुरुलघुतादिकं पश्येत् । Xमभु. (५) सत्यं संपश्येत्, अम्मिन् व्यवहारेऽपवादिनोः किं प्रयोजनं भविष्यतीति पश्येत् । साक्षिण: पश्येत्, यथोक्तगुणानामपि साक्षिणां रागद्वेषौ पश्येत् । इङ्गि- तादिभिर्देशं कालं च पश्येत् । अस्मिन् देशे अस्मिन्कालेऽ यमर्थो युज्यते न वेति पश्येत् । विवादविषयस्यार्थस्य रूपं पश्येत् । नन्द. धर्मशास्त्रं देशादिधर्माश्च व्यवहारप्रमाणम् स्मृतिशास्त्रे त्वविज्ञाते दुर्ज्ञाते वाऽविवेकतः । धर्मकार्ये महान्दोषः सभायां बढ़तः सदा ॥ जातिजानपदान्धर्मान् श्रेणीधर्माच धर्मवित् । समीक्ष्य कुलधर्मात्र स्वधर्म प्रतिपादयेत् || सारिणीय व्याख्या | + व्यक. मेधावत् । * मेधातिथिमाप्योक्ताऽन्यकल्पानु- x मच ममुवन् । (१) अप. २१२. मनुस्मृतौ नोपलभ्यते । (२) मस्मृ.८४१; शुनी. ४।५४६ ५४७ च धर्मवित्