अष्टादशोऽध्यायः य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्ति मयि परां कृत्वा स मामेष्यत्यसंशयः ॥ ६८ ॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि । ६९ ।। अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्ट: स्थामिति मे मतिः ॥ ७० ॥ 279 श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभाल्लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥ ७१ कच्चिदेतच्छ्रतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसंमोहः प्रणष्टस्ते धनञ्जय ॥ ७२ ॥ य इदमित्यादि धनञ्जयेत्यन्तम् । भक्तिमिति - एतदेव मयि भक्तिकरणं यत् भक्तेष्वेतन्निरूपणम् । अभिधास्यति', आभिमुख्येन शास्त्रोक्तप्रक्रियया, धास्यति वितरिष्यति [यः] स मन्मयतामेति इति विधिरेवैष नार्थवादः । एवंमन्यत्र ।। ६८-७२ ।। अर्जुन उवाच- नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसम्मोहः करिष्ये वचनं तव ।। ७३ ।। नष्ट इति । नष्टो मोह इत्यादिना 'युद्धप्रवृत्तिस्तावद- र्जुनस्योत्पन्ना, न तु सम्यग्ब्रह्मवित्त्वं जातम्' इति सूचयन् भाविनोऽनुगीतार्थस्यावकाशं ददाति ।। ७३ ।। 1. B, N मद्भक्तेषु 2. S, B, N मद्भक्तेष्वभि अनुर्माता See ant, xx
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३४०
दिखावट