पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

280 संजय उवाच- 112 Penn श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ।। व्यासप्रसादाच्छ्रतवान् एतद्गुह्यतरं महत् । योगं योगीश्वरात् कृष्णात् साक्षात्कथयतः स्वयम् ॥ ७५॥ राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च पुनः पुनः ॥ ७६ । तच्च संस्मृत्य परमं रूपमत्यद्भुतं हरेः । विस्मयो मे महाराज प्रहृष्ये च पुनः पुनः ॥ ७७ ।। यत्र योगीश्वरः कृष्णो यत्न पार्थो धनुर्धरः । तत्र श्रीविजयो भूतिध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥ ॥ इति श्रीमद्भगवद्गीतायां अष्टादशोऽध्यायः ॥ इत्यहमित्यादि मतिर्ममेत्यन्तम् । संजयवचनेन संवाद- मुपसंहरन् एतदर्थस्य गाढप्रबन्धक्रमेण निरन्तर चिन्तासन्तानोप- कृतनैरन्तर्यादेव चान्ते सुपरिस्फुट निर्विकल्पानुभवरूपतामापा- द्यमानं स्मरणमात्रमेव परब्रह्मप्रदायकम् इत्युच्यते । एवं भग- वदर्जुनसंवादमात्रस्मरणादेव तत्त्वावाप्त्या श्री विजयविभूतय इति ।। ७४-७८ ॥ ।। शिवम् ।। 1. S, B तस्वव्याप्त