254 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अतो यज्ञादि यावच्छरीरभावितया कार्यमेव । तदर्थे [च ] हितं कर्म अर्जनादि । यदि वा ओम् इत्यनेन समुपशान्तसमस्तप्रपञ्चम्; तत् इत्यनेनोद्भिद्यमान विश्वतरङ्गपरामर्शमात्रात्मकेच्छास्वातन्त्र्य स्वभावम्; सत् इत्यनेन इच्छास्वातन्त्र्यभरविजृम्भमाणभेद- कम्, पूर्णत्वेऽपि तावच्चिवस्वभावतया भवनमिति प्रतिपाद्यते । तथाचोक्तम् 'सद्भावे साधुभावे च' इति । तेन परमं प्रशान्तं रूपं पुरस्कृत्य दित्सा- यियक्षा-तितप्सात्मकेच्छा तरङ्गसंगतं च मध्येकृत्य दानयज्ञतपः क्रियाकारककलापपरिपूर्ण यच्चरमं वपुः इदमुल्लसितम्, एतत् खलु समं वितयमनर्गलस्य स्वाभाविक रूपम् इति कस्य किं कथं कुतः क्व केन फलं स्यादिति ।। २३-२७ ।। इदानीमश्रद्धावतः तामसं कर्म सर्वथा निष्फलं कारक- कलापसंयोजनसमुपजनितप्रयासमात्रफलमेव इति सर्वथैव॰ अश्रद्धावता न भाव्यमित्युच्यते- अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥ ॥ इति श्रीमद्भगवद्गीतायां सप्तदशोऽध्यायः ॥ 1. N,K. विहितम् 2. S परमप्रशान्त रूपं 3. N omits क्व 4. S सर्वथैव 5. N संयोजनमुपजनित- 6. S सर्वथा
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३१५
दिखावट