श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता दातव्यमित्यादि उदाहृतमित्यन्तम् । दातव्यमिति - दद्यादिति नियोगमात्रं पालनीयमिति दोषाभिसंधानाय । परिक्लिष्टं मितादिदोषात् । दानस्य चासत्करणं तत्संप्रदाना- द्यसत्करणात् । एवं लौकिकानां सात्त्विकादिविप्रकाराशयानु- सारेण क्रिया व्याख्याता ।।२०-२२ ।। 252 इदानीं ये गुणवितय संकटोत्तीर्णधियः ते क्रियां कथमा- चरन्ति इति तादृकप्रकार उच्यते- ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्रह्मणा तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥ तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४ ॥ तदित्यनभिसन्धाय फलं यज्ञतपः क्रियाः । दानक्रियाव विविधाः क्रियन्ते मोक्षकांक्षिभिः ॥ २५ ॥ सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ गीयते ॥ २६ ॥ यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥ ओमित्यादि अभिधीयते इत्यन्तम् । ओं तत् सत् इत्ये- भिस्तिभिः शब्दैर्ब्रह्मणो निर्देश:, संमुखीकरणम् । तव ओम् इत्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यते । 1. S येषामभिसन्धाय, B दोषासन्धाय
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३१३
दिखावट