पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशोऽध्यायः 251 मात्रम्' । भाव:- आशयः, तस्य सम्यक् शुद्धिः भावसंशुद्धि: ।। १४-१६।। आएकी श्रद्धया परयोपेतं तपस्तत् त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्विकं परिचक्षते ॥ १७ ॥ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तविह प्रोक्तं राजसं चलमध्रुवम् ॥ १८ ॥ क मूढग्रहेणात्मनो यत् पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत् तामसमुदाहृतम् ॥ १९ ॥ श्रद्धयेत्यादि तामसमुदाहृतम् इत्यन्तम् । त्रिविधेऽपि तपसि श्रद्धा । सात्त्विकस्य हि तन्मयी एव श्रद्धा | राजसस्य तु रजसि दम्भादावेव श्रद्धा । तमोनिष्ठस्य पुनः परोत्सादना- दावेव श्रद्धा । इति त्रिविधमपि तपः श्रद्धयोपेतमिति मुनि- राह ।। १७-१९ ।। दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥ २० ॥ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्राजसमिति स्मृतम् ॥ २१ ॥ अदेशकाले यद्दानमपात्रैभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ।। 1. N यथाववृत्त- 2. S, B, N omit भावसंशुद्धिः