श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता (व्या) अश्नुवीयेति । अशू व्याप्तौ इति स्वादेर्धातो- विधिलिङि उत्तमपुरुषैकवचने रूपम् ।। 246 श्लो. ९-१२ (व्या) संसृतिप्रलयाव्युपरमात् इति । अत 'यदि प्रलयः कश्चिदभविष्यत् संसृत्या अननुयातः, तदा खल्व- भविष्यत् चिन्ताया अन्तः आत्यन्तिकोच्छेदः; तादृशप्रलयो नास्त्येवेत्यविरतैवैषां चिन्ता' इति ध्वनिः ॥ श्लो. १३-१६ (व्या) निरये अवीच्यादौ जन्ममरणसं- ताने चेति । एति सुखमनेनेति अयः शुभावहो विधिः । निर्गतः अयादिति निरयः अवीच्यादिनरकवाचकः । एति सुखं दुःखं च अनेनेति अयः शुभाशुभात्मकं कर्म; निर्वृत्तः तस्मात् इति निरयः जन्ममरणसंतानवाचकोऽपि इति बोध्यम् । अथवा निरये इत्यस्यार्थ: अवीच्यादावित्यनेन, अशुचावित्यस्यार्थो जन्ममरणसंताने इत्यनेन च दर्शित आचार्येणेति मन्तव्यम् । अन्यथा अशुचावित्यस्य व्यर्थविशेषणत्वापत्तेः शुचिनिर- यस्याप्रसिद्धेः ।। , श्लो. १७-२० (व्या) यज्ञैरित्यादि जायते इत्यन्तम् । प्रथमव्याख्याने नामेति भिन्नं पदमव्ययं कुत्सनार्थकम् । द्वि- तीयपक्षे नाम्ना नाममात्रेण ये यज्ञास्तैरिति विग्रहः । तृतीये च नामफलका यज्ञाः नामयज्ञाः तैरिति शाखपार्थिवादित्वात् समासः ॥ संग्रहश्लोके अबोधे इति सतिसप्तमी । बोधस्य तत्त्वज्ञानस्यानुदयावस्थायामित्यर्थः । यद्वा अबोधे बोधस्या- विषये पुरुषबुद्धिपथमतिक्रम्य स्थिते धर्मादौ विषये इति ।। ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्यण्यां षोडशोऽध्यायः ।। -
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३०७
दिखावट