245 षोडशोऽध्यायः ॥ श्रीमद्भगवद्गीतार्थसंग्रह टिप्पणी ॥ श्लो. १-५ (अ) इत्येवंभूतेत्यादि । इत्येवंभूताः युक्तिश्व, चिन्ता च भावना च याः, तन्मयज्ञानानामुदयेन इति विग्रहः । युक्तयादयस्तित्रश्च यथाक्रमं विचारविमर्शपरामर्श- रूपा इति बोध्यम् । तथा च युक्तिचिन्ताभावनानां विचार- विमर्शपरामर्शरूपाणाम् उदयेनेति प्रघट्टार्थः । अथ वा रूपे- णेति तृतीयाया अभेदोऽर्थः । स च पूर्वतनसमस्तपदघटकचि- न्तादिपदार्थेष्वन्वेति । एवं च विचारादित्रयरूपा या युक्तया- दयस्तिस्रः तासामुदयेनेत्यर्थः । यद्वा उदयः उन्नतिः । 'उदयः पर्वतोन्नत्योः' इति हैमात् । एवं च विचारविमर्शपरामर्शरूप- युक्तिचिन्ताभावनामयज्ञानानामुदयेन उन्नत्या इत्यर्थः । तृतीया- र्थहेतुत्वस्य विजातीयन्यक्कारविरहितेति व्यवहितेन संबन्धः । विजातीयेत्यादि । विजातीया या द्वैतभावना तत्कृतेन न्यक्कारेण तिरस्कारेण विरहिता शून्या, तथा च द्वैतज्ञानाना- स्कन्दिता, या तस्य श्रुत्यर्थभूतस्य अद्वैततत्त्वस्य भावना तन्म- यस्य तत्प्राचुर्यस्य यत् सु सम्यक् अभ्यस्तम् आम्रेडनं पौन:- पुन्यं तदाकारस्य तत्स्वरूपस्य विज्ञानस्य विमर्शस्य लाभे सतीत्यर्थः । विमर्शक्षमता - विचारकरणे शक्तिमत्ता । वस्तुस्वभाव इति । पूर्वतनाप्यविद्या पश्चात्तन्या वि द्यया बाध्यते । कुतः? विद्यायाः वस्तुस्वभावत्वात् वस्तु- तन्त्रत्वात् वस्तुविषयत्वेन तदनुगृहीतत्वात् । अविद्यायाव अवस्तुविषयत्वात् इति भावः ।।
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३०६
दिखावट