पंचमोऽध्यायः 99 श्लो. २६-२७ (व्या) एतदेव बाह्ये इति । एतत् व्युत्प त्तिप्रदर्शनं बाह्यानां भौतिकानां भ्रूषाणापानवायुनासानां विष- येऽपि संभवतीत्यर्थः । अथवा एते एव बाह्ये इत्येव लिलेखिषि- तम् । क्रोधरागौ धर्माधम इति द्विकद्वये एते एव बाह्ये, न तु स्पर्शादीनि, यतः तानि भगवत्याः संविद आभासरूपाणि । तेषां क्रोधादिसंबन्धादेव, न वस्तुगत्या, बाह्यत्वमिति तात्पर्यम् ॥ श्लो. २८ (ग्या) यज्ञफलेषु भोक्ता इति । यज्ञेषु फलभो- क्तेति यावत् । यतो वक्ष्यत्यनुपदमेव 'एवं तपस्सु' इति । भोक्ता, पालयिता । कथमित्याह - त्यक्तफलत्वात् इति । त्यक्तं, दत्तं, वितीर्णं फलं, कर्मफलं येन तस्य भावस्तस्मादिति विग्रहः । फलदातृत्वादित्यर्थः । यद्वा भोक्ता, अनुभविता, अनुभवितृत्वेव मतः । कुतः १ व्यक्तफलत्वात्, त्यक्तं समर्पितं फलं यस्मै तस्य भावस्तस्मात् । 'यत् करोषि यज्जुहोषि - यत्तपस्यसि --- तत् कुरुष्व मदर्पणम्' इति (1X, 29) वक्ष्यमाणोपदेशानु- सारेण संन्यासिता भगवते सर्वसमर्पणात् इति भावः । अय वा त्यक्तफलत्वात् इत्यस्य विदुष इत्यादिः । तस्यैव प्रकरणात् । उक्तदिशा विदुषा फलस्य त्यक्तत्वात् भोक्ता परमात्मैव मत इति भावः । एवं तपस्सु इति । तपः फजविषयेऽध्ये व मेवार्थी बोध्य इत्यर्थः ॥ संग्रहश्लोके मोक्षायैत्रावकल्पते इत्यत्न 'भक्तिर्ज्ञानाय कल्पते' इत्यादाविव, 'क्लृपि संपद्यमाने च' (PA, II, iii, 13, vārttika 2) इति चतुर्थी । ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्या पञ्चमोऽध्यायः ॥ -
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१६०
दिखावट