सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४१४) भट्टिकाव्ये जयमङ्गलास मे ते- [ पञ्चदशः - ऋषभोऽद्रीनुदक्षैप्सीत्त तैररिमतर्दिषुः । अस्फूर्जीद् गिरिशङ्गं च व्यस्त्राक्षीद् गन्धमादनः ॥ ४४ ॥ ऋषभ इत्यादि - ऋषभो नाम कपिरद्रीनुदक्षैप्सीत् उत्क्षिप्तवान् । ते शर- मादयस्तैर्वृक्षादिभिररिमतर्दिषुः हतवन्तः । 'तर्द हिंसायाम् ।" गन्धमादनो नाम कपिरस्फूर्जीतू वज्रमिव गिरिशृङ्गं च व्यस्राक्षीत् विसृष्टवान् । सृजिस्तौ- दादिक उदात्तत् ॥ ४४ ॥ अकुर्दिष्ट व्यकारीच गवाक्षो भूधरान् बहून् । स तान्नाजीगणद् वीर: कुम्भकर्णोऽव्यथिष्ट न ॥ ४५ ॥ अकूर्दिष्टेत्यादि--गवाक्षो नाम कपिः अकूर्दिष्टं क्रीडापूर्वकं चेष्टते स्म । भूधरान् महीधरांश्च व्यकारीत् विक्षिप्तवान् । वीरः कुम्भकर्णस्तान् शरभा- दीन् नाजीगणत् न गणयामास । 'अजगणत्' इति पाठान्तरम् । तत्र चकारेणा- त्वमप्यनुवर्तते । न चाव्यथिष्ट न व्यथितोऽभूत् ॥ ४५ ॥ अमन्थीच्च परानीकमलोष्ट च निरङ्कुशः । निहन्तुं चात्वरिष्टारीनजक्षीच्चाङ्कमागतान् ॥ ४६॥ अमन्थीदित्यादि – परानीकं शत्रुसैन्यममन्थीत् क्षोभितवान् 'मन्थ विलो- डने ।' निरङ्कुशश्चाप्रतिहतशक्ति: अप्लोष्ट भ्रान्तवान् ।' 'लुङ् गतौ' । अरींश्च वानरान्निहन्तुमत्वरिष्ट त्वरते स्म ।' बित्वरा संभ्रम ।" अङ्क च समीपमाग- तानजक्षीत् भक्षितवान् ।' जक्ष भक्षहसनयोः' । इति भक्षणे जक्षिः ॥ ४६ ॥ व्यक्रुक्षद्वानरानीकं संपलायिष्ट चायति । हस्ताभ्यां नश्यदऋाक्षीदीमे चोपाधितानने ॥ ४७ ॥ व्यक्क्रुक्षदित्यादि--तस्मिन्नायत्यागच्छति सति, आङ्पूर्वस्येण: शतरि रूपम् । वानरानीकं व्यक्रुक्षत् विक्रोशति स्म ।' शल इगुपधादनिटः क्सः । ३|१|४५|' संपलायिष्ट पलायते स्म । तच्च नश्यत्पलायमानं हस्ताभ्यामकाक्षीत आकृष्टवान् कुम्भकर्णः । ‘कृप विलेखन' | 'अनुदात्तस्य चर्दुपघस्यान्यतरस्याम् १६|१|५९।' इत्यम् । हलन्तलक्षणा वृद्धिः । आकृष्टं चातिभमेऽतिभयङ्करे विकृते आनने वक्रे उपाधित न्यस्तवान् ‘धाञ्' । 'स्थाध्वोरिच्च |१|२|१७|' ।। ४७ ।। रक्तेनाचिक्किदद् भूमिं सैन्यैश्चात स्तरद्वतैः । नाताप्सद्भक्षयन् कूरो नाश्रमद् [नन् प्लवङ्गमान् ॥ ४८ ॥