भट्टिकाव्ये जयमङ्गलासमेते- [ एकादश:- चक्षूंषीत्यादि--कान्तान्यपि शोभनान्यपि चक्षूंषि, विकचोत्पलद्युति- त्वात् । साञ्जनानि कुर्वन् स्त्रीजनः, प्रातर्गृह्यमाणप्रसाधनत्वात् । सरागै चौष्ठं, स्वभावतो बिम्बफलाकारत्वात् । ताम्बूलरक्तं कुर्वन् । स्वभावतश्च सुगन्धि वक्रं मुखं सवासं वासयुक्तं कुर्वन् । केवलपक्षपात समत्वं चक्रे, अञ्ज- नादीनां निरर्थकत्वात् ॥ २४ ॥ (३२६) S क्षतैरसंचेतितदन्तलब्धैः सम्भोगकालेऽवगतैः प्रभाते । अशङ्कताऽन्योन्यकृतं व्यलीकं वियोगबाह्योऽपि जनोऽतिरागात् ॥ २५ ॥ क्षतैरित्यादि-- इ---अस्या मया दत्तम् अस्य च मयेति संभोगकाले रागान्ध- तया असंचेतितान्यज्ञातानि दन्तेभ्यो लब्धानि यानि अतानि । 'चित संचेतने' इति स्वार्थिकण्यन्तस्य रूपम् । प्रभातकाले अवगतैदृष्टेः वियोग- बाह्योऽपि सुप्तोऽपि कामिजन: अतिरागात् अतिस्नेहात् अन्योन्यकृतम् अन्योन्येन कृतं व्यलीकम् अपराधम् अशङ्कत विकल्पितवान् । लङि रूपम् किमस्यान्यया हताशया दत्तमिति योषिदशङ्कत, पुरुषोऽपि किमन्येन धूर्तेनास्या इति ॥ २५ ॥ नेत्रेषुभिः संयुतपक्ष्मपत्रैः कर्णाऽन्तकृष्टैरुरु केशशूलाः । स्तनोरुचक्रास्तत कर्णपाशाः स्त्रीयोधमुख्या जयिनो विचेरुः ॥२६॥ नत्रेषुभिरित्यादि-~-नेत्राणि इपव इव तैः संयुतानि संयुक्तानि पक्ष्माण्येव पत्राणि येषां तैः । कर्णान्तकृष्टैः कर्णान्तविश्रान्तैः उपलक्षिताः स्त्रियो योधमुख्या इव उरुकेशशूलाः उरबो महान्तः केशाः शूला इव येषाम् | स्तनोरुचक्राः स्तना ऊरूणि चऋाणीव येषाम् । ततकर्णपाशाः तताः कर्णा: पाशाः इव येषां ते. जयिनो लब्धविजया विचेरुः भ्रान्ताः ॥ २६ ॥ पयोधरांश्चन्दनपङ्क-दिग्धान् वासांसि चाऽमृष्टमृजानि दृष्ट्वा । स्त्रीणां सपत्न्यो जहपुः प्रभाते मन्दायमानाऽनुशयैर्मनोभिः ॥२७॥ पयोधरानित्यादि-चन्दनपङ्कदिग्धान् आप्तुतचन्दनत्वात् । वस्त्राणि च अमृष्टमृजानि अनपनीतशुद्धभावानि स्त्रीणां दृष्ट्वा प्रभाते तत्सपत्न्यो मनोभिः न बाह्यं जहषुः हृष्टाः, अप्राप्तसुरतत्वात् । मन्दायमानानुशयै: आभिः सह शयिता इति तासु ये अनुशया: अक्षान्तयो जाता: ते मन्दायमानाः शनैः शनैस्तनू- भवन्तो येषु मनःसु तैरित्यर्थः ॥ २७ ॥ स्मराऽऽतुरे चेतसि लब्धजन्मा रराज लोलोऽपि गुणाऽपहार्यः । कुतूहलान्नेत्रगवाक्षसंस्थः पश्यन्निवाऽन्योन्यमुखानि रागः ॥ २८ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३६४
दिखावट