सर्गः ] अधिकारणकाण्डम् | १|१||५५|' इति फिञ् । फस्यायनादेशः । तस्य वल्लभाम् इष्टामुपलम्भ्यां प्रश- स्ताम् । 'पोरदुपात् |३|१२|१८|' इति यत् । 'उपत्प्रशंसायाम् |७|१|६६।' इति यत्प्रत्यये नुम् । ंअपश्यन्तोऽनुपलभमानाः ॥ ९० ॥ एते प्रकीर्णकाः ॥ इतः किदतिशेषमधिकृत्याह-- Aman जगाद वानरान् पक्षी नाध्यगी ध्रुवं स्मृतिम् । यूयं सङ्कुटितुं यस्मात् कालेऽस्मिन्नध्यवस्यथ ॥ ९९ ॥ जगादेत्यादि-ध्रुवम् अवश्यं स्मृति स्मृतिशास्त्रं नाध्यगीढं नाधीतवन्त इति पक्षी वानरान् जगाद 'विभाषा लुङ्लङोः |२|४|५०।' इति विभाषा गाङादेशः । 'गाङ्कुटादिभ्यः ञ्णिङित् ||१|२|१|| इति सिचो ङित्त्वम् । 'घुमास्था- गापाजहातिसां हलि |६|४|६६|' इतीत्वम् 'घि च |८|२|२५|' इति सिचो लोपः। ‘इणः षीध्वम्।८।३।७८|' इत्यादिना मूर्धन्यः । यस्माद्ययमस्मिन् काले संकुटितुम् अवसातुमध्यवस्यथ अभिप्रायं कुरुथ । कुटादित्वात् ङित्त्वम् ॥९१॥ अयमेवावसांतु काल इति चेदाह - नाद्रमुद्विजितुं कालः स्वामिकार्याद् भवादृशाम् । हृतभायें च्युते राज्यादामे पर्युत्सुके भृशम् ॥ ९२ ॥ नायमित्यादि-भवादृशां युष्मद्विधानां स्वामिकार्यादुद्विजितुं नायं कालः । ‘विज इट् | १।२।२।' इति ङित्वम् । किमिति न भवतीति चेदाह राज्याच्च्युते भ्रष्टे रामे निर्वासितत्वात् । तत्रापि हृतभायें भृशमत्यर्थः पर्यत्सुके सीतायाम् ।।९२|| यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम् । प्रोर्णुवित्रीं दिवस्तत्र पुरीं द्रक्ष्यथ काञ्चनीम् ॥ ९३ ॥ यत्नमित्यादि -- दक्षिणां दिशं प्रोर्ण वितुम् आच्छादयितुं छादयिष्याम इति तुमुन् । तूर्णं शघ्रिं यत्नं कुरुत । तस्यां दिशि पुरीं द्रक्ष्यथ । काञ्चनीं सुवर्ण- सम्बन्धिनमित्यर्थ' । 'प्राणिरजतादिभ्योऽन् ।४।३।१५४ | 'प्रोर्णुवित्रीम् अभिव्या- पिनीम् । तृचि रूपम् दिव आकाशस्य | कर्मणि षष्ठी | 'विभाषोर्णोः |१|२|३| इति ङित्त्वपक्षे उवङ् । अङित्त्वपक्षे च गुणः । कुरुतेति 'सार्वधातुकमपित् |१||२|४|' इति ङित्त्वे विकरणस्य गुणो न भवति । तस्य चार्धधातुकत्वात् अङित्त्वे धातोर्गुण: 'अत उत्सार्वधातुके |६|४|११० ।' इति उत् ।। ९३ ॥ त्रिभिः कालापकम् । लङ्कां नाम्ना गिरेमूर्ध्नि राक्षसेन्द्रेण पालिताम् । निर्जित्य शक्रमानीता ददृशुर्या सुरस्त्रियः ॥ ९४ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२४१
दिखावट