( १८२ ) भट्टिकाव्ये जयमङ्गलासमे तें- [ सप्तमः - । सर्वत्र अकम्प्रम् अकम्पनशीलम् अभीरुमित्यर्थः । नम्रः साधु प्रह्णीभूतः 'नमिकम्पिस्म्यजसकम हिंसदीपो रः | ३|२|१६७।' इति रः ।। २३ ।। कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः । इच्छु: प्रसादं प्रणमन्सुग्रीवः प्रावदन्नृपम् ॥ २४ ॥ कम्राभिरित्यादि — सुग्रीवः प्रावदत् नृपं. लक्ष्मणम् । स्त्रीभिरावृतः परि- बृतः सन् प्रणमन् । ताभिः सहेत्यर्थः । कम्रोभिः कमनशीलाभिः । पूर्ववद्रः । आत्मनः क्षेमं कल्याणमौशंसुः प्रार्थयमानः | 'सनाशंसभिक्ष उः | ३|२|१६८ | इत्युः । 'न लोकाव्ययनिष्ठाखलथैतृनाम् |२|३|६९|| इति षष्ठीप्रतिषेधः । इच्छुः । प्रसादं प्रसादयिषणशील: । 'अपि मे स्वामी प्रसन्न: स्यात्' इति । 'बिन्दु - रिच्छुः ।३।२।१६९।' इति निपातनम् ।। २४ ।। अहं स्वप्नवप्रसादेन तव वन्दारुभिः सह । अभीरुरवसं स्त्रीभिर्भासुराभिरहेश्वरः ॥ २५ ॥ अहमित्यादि --- अहं तव प्रसादेन इह गुहायां स्वप्नक् निद्रालु: शयितवा- नस्मीत्यर्थ: । चिन्ताभावात् । 'स्वपितृपोर्नजिङ् |३|२|१९७२ || इति नजिङ् । वन्दारुभिर्वन्दनैशीलाभिः सह । 'शवन्धोरारुः |३|२|१७३|' इत्यारुः । अभीरुँः अभयशीलः । ‘भियः क्रुक्लुकौ |३|२|१९७४।' इति क्रुः । भासुराभिः भासनशीलाभिः । ईश्वर : ईशनशील: । 'स्थेशभासपिसकसो वरच् ३।२।१७५।१ इति वरच् ॥ २५ ॥ विद्युन्नाशं वेभसं विभ्राजं शशलाञ्छनम् | रामप्रत्तेषु भोगेषु नाहमज्ञासिषं रतः ॥ २६ ॥ विद्युत्यादि--- रामप्रषु रामेण दत्तेषु भोगेषु रतः सक्तः । नामज्ञासिषं नाहं ज्ञातवानस्मि । लुङि 'यमरमनमातां सक् च | ७|२|७३ || इति सगिटौ | विद्युन्नासं द्योतनशीला विद्युतः तासां नाशम् । वर्भाः भासनशीला दीप्तिः । ताम् । विभ्राजं साधु दीप्यमानं शशलाञ्छनं चन्द्रम् | प्रावृडतिक्रान्ता शरदाया- तोते नाज्ञासिपमित्यर्थः । सर्वत्र 'भ्राजभासधुर्विद्युतोर्जिपूजुगावस्तुवः विप् |३|२|१७७।' इति कि ॥ २६ ॥ 9 'कम्रः कामयिताऽभीमः कमनः कामनोऽभिकः । इत्यमरः ॥ २ 'आशंसुराशंसितरि ।' इत्यमरः । ३ प्रसन्नतयेत्यर्थः । 'प्रसादस्तु प्रसन्नता ।" इल्यमरः । ४ ‘वन्दारुरभिवादके ।' इत्यमरः । ५ भीरोर्विरुद्धोऽभीरुः । 'अधीरे कातरस्त्रस्ते भीरुभीरुकर्भालुका: । इत्यमरः ।६ उज्ज्वलाभिरित्यर्थः । ७ राम- पम्ण लब्धष्वित्यर्थः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२२०
दिखावट