सर्गः ] प्रकीर्णकाण्डम् । (८७) ५८ |' इति मुल् । अत्र नामग्रहणविशिष्टाया रोदनाक्रयाया व्याप्तुमिष्ट- त्वाद्रुदिः सकर्मकः । रावणान्तिके रावणसमीपे । सप्तम्यधिकरणे च।२।३।३६।' इति चकाराद्दूरान्तिकार्थेभ्य इति सप्तमी ॥ तयोः किं जातमिति रावणेन पृष्टाह- • दण्डकानध्यवात्तां यौ वीर ! रक्षःप्रकाण्डको नृभ्यां सङ्ख्येऽकृषातां तो सभृत्यौ भूमिवर्धनौ ॥ ६ ॥ दण्डकानित्यादि- हे वीर दण्डकान् दण्डकारण्य सन्निवेशान् अध्यवात्ताम् अध्युषितवन्तौ । 'वस निवासे |" इत्यस्माल्लुङ् | हलन्तलक्षणा वृद्धिः । ‘सः स्यार्धधातुके।७।४।४९ | इति धातुसकारस्य तत्वम् | 'झलो झालि | ८|२|२६| इति सिचो लोपः। रक्षःप्रकाण्डको प्रशस्तौ राक्षसौ । 'प्रशंसावनैश्च | २|१२|६६ इति समासः । ततः स्वार्थे कन् 'स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति नपुंसको न भवति । अन्यथा रूढिशब्दाः प्रशंसांवचना आविष्टलिङ्गत्वा - दन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादानादेव समानाधिकरणाः स्युः । यथा गोप्र- काण्डमिति । तौ नृभ्यां मनुष्याभ्यां सङ्ख्ये युद्धे भूमिवर्धनावकृषाताम् कृतौ । कर्मणि लुङ् । अचिण्वद्भावे रूपम् । वर्धेते इति वर्धनौ । 'कृत्यल्युटो बहुलम् ।३।३।११३|' इति कर्तरि ल्युट् | भूमेवर्धनाविति स० । भस्मकृतशरीरस्य भूमौ लीयमानत्वात् । सभृत्यौ नैकाकिनौ ॥ ५ ॥ विग्रहस्तव शक्रेण बृहस्पतिपुरोधसा | - सार्धं कुमारसेनान्या शून्यश्चाऽसीति को नयः ॥ ७ ॥ विग्रह इत्यादि--बृहस्पतिः पुरोधा मन्त्री यस्य शक्रस्य तेन | कार्येषु पुरो धीयत इति पुरोधाः । पुरः पूर्वाद्धाञः सर्वधातुभ्य असुन् । तथा कुमारः कार्ति- केयः सेनानीर्यस्य । सेनां नयतीति 'सत्सूद्विपद्रुयुजविद्भिदछिजिनीरा- जामनुपसर्गेऽपि । ३।२ ।६१|' इति विप् । तेन शक्रेण साथै सह तव विग्रह आसीत् । इदानीं कार्यनिपुणाभावात् शून्यञ्चासि | 'तासस्त्योपः |७|४|५० इति सकारलोपः । तस्मात्को नयः । नय एव न भवतीत्यर्थः ॥ १ ॥ तदेव दर्शयन्त्याह- ● यद्यहं नाथ ! नाऽयास्यं विनासा हतबान्धवा | नाऽज्ञास्यस्त्वमिदं सर्वे प्रमाद्यंश्चारदुर्बलः ॥ ८ ॥ यदीत्यादि - विनासा विगता नासा यस्याः । नासैव नासिकेति' केऽणः ।७।४ |१३|' इति ह्रस्वत्वे रूपं, तस्या नसादेशस्य विधीयमानत्वादत्र सम्भव एवं नास्ति ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१२५
दिखावट