(८६) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चमः - हुल्यमकाम् कृतवन्तौ । आयुधानां छायेति 'छाया बाहुल्ये । २ । ४ । २२ ।' इति नपुंसकत्वे ह्रस्वत्वम् । खनादीनां बाणान्तानां द्वन्द्वैकवद्भावं कृत्वा पश्चात्तेन सहितां गदेति शाकपार्थिवादित्वात् समासः । अन्यथा 'समुदायस्य जातिर- प्राणिनाम् । २ । ४।६।' इत्येकवद्भावेन नपुंसकलिङ्गता स्यात् बाणगदमिति । खड्गमुसलप्रासचक्रबाणगदाः करे येषामिति समासे 'प्रहरणार्थेभ्य' इत्यादिना करशब्दस्य परनिपातः ॥ २ ॥ अथ तीक्ष्णाऽऽयसैर्वाणैरधिमर्म रघूत्तमौ ! व्याचं व्याधममूढौ तौ यमसाच्चक्रतुद्दिषौ ॥ ३ ॥ अथेत्यादि--अथैतस्मिन् सङ्ग्रामे रघूत्तमौ रामलक्ष्मणौ कर्तृभूतौ । कर्मभूतौ द्विषाविति । 'सत्सूद्विषद्रुहयुजविद्भिदच्छिदजिनीराजामनुपसर्गेऽपि किप् । ३ । २ । ६१ ।' इति क्विप् । यमसाच्चऋतु: यमाधीनौ कृतवन्तौ । 'तद्- धोनवचने । ५ । ४ । ५४ ।' इति सातिः । तीक्ष्णायसैर्वाणैः । तीक्ष्णमायसं फलं । येषामिति । व्याधं व्याधं विद्धा विद्धा । 'आभीक्ष्ण्ये णमुलू च । ३ । ४ । २२।१ तत्र ‘समानकर्तृकयोः पूर्वका |३|४|२१|| इति अनुवर्तते । ‘आभक्ष्ण्णेि द्वे भवतः' इति 'द्विर्वचनम् । अधिमर्मेति विभक्त्यर्थेऽव्ययीभावः । अमूढौ साव- धानौ रामलक्ष्मणौ ॥ ३ ॥ मर्मवेधमेवाह - हतबन्धुर्जगामाऽसौ ततः शूर्पणखा वनात् । पारेसमुद्रं लङ्कायां वसन्तं रावणं पतिम् ॥ ४ ॥ हतेत्यादि -- असौ शूर्पणखा हतबन्धुः व्यापादितभ्रातृद्वया ततो वनाइण्ड- कारण्यात् रावणं पतिं प्रभुं शरणं जगाम गतवती । पारेसमुद्रम् । समुद्रस्य पार इति 'पारे मध्ये षष्ट्या वा १२११११८ इत्यव्ययीभावः । तत्सन्नियोगेन पूर्वपदस्यैकारान्तत्वम् । पश्चात्सप्तमी | 'नाव्ययीभावात् २।४।८३|' इत्यम्भावः। समुद्रस्य पारे स्थितायां लङ्कायां वसन्तं रावणमिति ॥ ४ ॥ सम्प्राप्य राक्षससभं चक्रन्द क्रोधविला || नाम ग्राहमरोदत्सिा भ्रातरौ रावणाऽन्तिके ॥ ५ ॥ सम्प्राप्येत्यादि-सा शूर्पणखा राक्षससभं संप्राप्य ढौकित्वा । राक्षसानां सभेति 'सभा राजामनुष्यपूर्वा |२|१४|२३|' इति नपुंसकता । चक्रन्द फ़न्दनं कृतवती । क्रोधविहला क्रोधावेवशा। भ्रातरौ खरदूषणावरोदीत् रुदितवती । नामग्राहं नाम गृहीत्वा । भ्रातरौ खरदूषणाविति । 'नाम्न्यादिशग्रहोः ।३।४।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१२४
दिखावट