सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकाण्डम् । (६१) सम्प्राप्येत्यादि–तमसापगायाः तमसाख्याया: आपगाया: नद्या: । 'अत्य- विचमित मिनमिरभिलभितपिपतिज,निपणिगहिभ्योऽसच् ' यस्याः रणात्पापं ताम्यति सा तमसा । 'तरसा' इति पाठान्तरम् । तत्र तरसा वेगेन आपगाया अर्थात्तमसाया नद्या गङ्गाम्बुसम्पर्कात् विशुद्धिं पवित्रतां भजते या तस्यास्तीरं कूलं सम्प्राप्य गत्वा ते जना निरुद्धश्रमवृत्तयः ययुः गताः । गङ्गेति गन् गम्यद्योरित्यौणादिको गन् । विगाहितुं विगाहिष्यामह इति कृत्वा । यामुनमम्बु यमुनाया इदं यमुनासम्बन्धि जलम् । पुण्यं पुण्य- हेतुत्वात् पुण्ययुक्तत्वाद्वा ॥ ३९ ॥ ईयुर्भरद्वाजमुनेनिकेतं यस्मिन्विशश्राम समेत्य रामः । च्युताऽशनायः फलवाद्वेविभूत्या व्यस्यन्नुदन्यांशिशिरैः पयोभिः४० ॥ ईयुरित्यादि — भरद्वाजमुनेर्निकेतं आश्रममीयुः गताः । ' इणो यण । ६ । ४ । ८१ ।' इति यत्वम् । अभ्यासस्य 'दीर्घ इणः किति | ७ | ४६९।१ इति दीर्घत्वम् । यस्मिन्निकेते रामो विशश्राम विश्रान्तः । समेत्य मिलित्वा । तमीयुर्जना इति योज्यम् । फलवद्विभूत्या फलवतां वृक्षाणां समृद्ध्या हेतुभूतया च्युताशनायोऽपगतबुभुक्षः । 'अशनायोदन्यवनायाबुभुक्षापिपासागर्धेषु । ७ । ४|३४|' इति निपातितः । व्यस्यन् उदन्यां वारयन् । असेदेवादिकस्य रूपम् । उदन्यां॰ पिपासां शिशिरैः शीतलैः पयोभिः ॥ ४० ॥ सर्गः ] स्म वाचंयमान्स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून् । अध्यापयन्तं विनयात्मणेमुः पद्गा भरद्वाजमुनि सशिष्यम् ॥ ४१ ॥ वाचमित्यादि – ते भरद्वाजमुनिं सशिष्यं शिष्यैः सह वर्तमानं प्रणेमुः प्रण- मन्ति स्म । विनयात् विनयेन । अत एव पद्नाः पदातयः पादाभ्यां गच्छन्तीति । 'अन्येष्वपि दृश्यते । ३ । २ । १०१ ।। इति डः । 'हिमकाषिहतिषु च । ६ । १३१५४|' इति चकारस्य अनुक्तसमुच्चयार्थत्वात् गमोत्तरपदे पदादेशः । पदिति योगविभागाद्वा । कीदृशम् । अध्यापयन्तं पाठयन्तम् । कान् वाचंयमान् मौनत्र- तान् । 'वाचि यमो व्रते | ३ | २ | ५० ।' इति खच् । 'वाचंयमपुरंदरौ च । ६ । ३ । ६९ ।’ इति निपातनात् पूर्वपदस्य अमन्तता | स्थण्डिलशायिनः भूशायिनः । 'स्थण्डिलाच्छयितार व्रते । ४ । २ । १५ ।' इति णिनिः । युयु क्षमाणान् योक्तुमिच्छतः । योगाभ्यासनिष्ठानित्यर्थः । अनिशमविच्छेदेन मुमुक्ष न्मोक्षाभिलाषिण इत्यर्थः । अतएव योगाभ्यासमिच्छून् ॥ ४१ ॥ आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्पद्रुमा योगबलेन फेलुः । धामप्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिमवन्त्युहुः ॥ ४२ ॥