५७४ प्रणम तावत्प्रत्युद्गम्य त्वत्स्नेहादेवातिदूरमागतस्यापि पितुः पादौ । वसा गता ते गुरुभक्तिः । च ते गुणाः । क्वस स्नेहः । व सा धर्मज्ञता | क्व तत्पितृपक्षपातित्वम् । च सा बन्धुप्रीतिः। कसा परिजनवत्सलता । कथम भाग्यै सर्वमेकपद एवोत्सृज्यैव मौदासीन्य मवलम्ब्यावस्थितोऽसि । अथवा यथा ते सुखं तथा तिष्ठ | वयर्भुदासीनहृदयास्त्वयि' इति कृतार्तप्रलापा समुपसृत्य पुन: पुनर्गाढमालिङ्ग्याङ्गानि शिरः समाप्राय कपोलौ चुम्बित्वा चन्द्रापीडस्य चरणावुत्त माङ्गे कृत्वोन्मुक्तकण्ठमरोदीत् । तथा रुदन्तीं तु तामन्त रितनिजपीडस्तारापीडश्चन्द्रापीडम • परिष्वज्यैव सर्वप्रजापीडापहरणक्षमाभ्यां भुजाभ्यामवलम्ब्याब्रवीत् – 'देवि, यद्यथावयोः सुकृतैरेंपत्यतामुपगतस्तथापि देवतामूर्तिरेवायमशोचनीयः । तमुच्यतामयसिदानीं मैनुष्य' लोकोचितः शोचितव्यवृत्तान्तः । अस्मिोके कृते न किंचिदपि भवति । केवलं गल एव स्फुटति रटतो न हृदयम् । निरर्थकं प्रलपितमेव निर्याति वदनान्न जीवितम् । निरा- सङ्गं नयनजलमेव पतति न शरीरम् | अपि च वत्सस्यादर्शनमात्रमेवावयोः पीडाकरम् | तच्चैवमालोक्यमाने मुखेऽस्य दूरापेतम् । अपरमस्यामवस्थायामावाभ्यामपि तावत्परमवष्टम्भं कादम्बरी । 1 एषा विलासवती पादयोश्चरणयोर्निपत्य निपतनं कृत्वा प्रणामं कृत्वा वत्सं पुत्रंतोषयामि संतोषयामि तुष्टिमु. त्पादयामि । हे पुत्र हे वत्स हे सूनो चन्द्रापीड, प्रत्युद्गम्य संमुखमागम्याभिमुखमागत्य तावदादौ त्वत्लेहा- त्तव प्रेम्णस्त्वत्प्रीते रेवातिदूरमागतस्यातिद विष्ठ मागतस्य पितुस्तारापीडस्य पादौ चरणौ प्रणम नमस्कुरु । सा ते तव गुरुभक्तिः पितर्याराध्यत्वेन ज्ञानं श्रद्धा वा वासना वा क्व गता कुत्र याता । ते तव गुणा भवद्गुणाः शौ- र्यादयःक्व । स प्राक्तनः स्नेहः प्रेम क्व | सानिर्वचनीया वक्तुमशक्या धर्मज्ञता वृषवेत्तृता धर्मज्ञातृता क | त त्सर्वप्रसिद्धं पितृपक्षपातित्वं क्व जनकमताश्रयित्वं क्व | सा वन्धुप्रीतिः क्व स्वजनेषु स्नेहः क्व स्वजनेषु प्रेम क्व । सा परिजने परिच्छदे वत्सलता हितकारिता व | ममाभाग्यैदुर्देवैर्मे ममैकपद एव सर्वमुत्सृज्यैव त्यक्त्वैव क अमदासीन्यं माध्यस्थ्यमवलम्ब्यालम्बनीकृत्यावस्थितोऽसि । अथवेति पक्षान्तरे | यथा ते तव मुखं तथा तेन प्रकारेण तिष्ठावस्थानं कुरु । वयं तूदासीनमुदासतांगतं हृदयं चेतो येषां ते तथोक्तास्त्वयि विषये । इति कृत आलापो यथा सैवंविधा विलासवती समुपसृत्य समीपे गत्वा पुनः पुनर्वारंवार मङ्गानि हस्तादीनि गाढं दृढमा- लिङ्ग्याश्लिष्य शिर उत्तमानं समाप्रायाघ्राणं कृत्वा कपोलौ प्रसिद्धौ चुम्बित्वा चुम्बनं कृत्वा चन्द्रापीडस्य च रणौ पादावुत्तमाङ्गे शिरसि कृत्वोन्मुक्तकण्ठं यथा स्यात्तथारोदीद्वदनं चकार । तथाप्रकारेण रुदन्तीं तु तामन्त रिता व्यवहिता निजपीडा येन स एवंभूतस्तारापीडश्चन्द्रा पीडम परिष्वज्यैवाना लिङ्गयैव सर्वप्रजायाः समग्रलो. कस्य सर्वप्रकृतेः सकलजनस्य पीडार्तिस्तस्या अपहरणे दूरीकरणे क्षमाभ्यां समर्थाभ्यां भुजाभ्यां वाहुभ्यामव लम्ब्यालम्बनीकृत्याब्रवीदभ्यधादवोचत् । किं तदित्याह - देवीति । हे देवि, यदिति हेत्वर्थे । यथा येन प्र- कारेणावयोस्तारापीड विलासवत्योः सुकृतैः पुण्यैरपत्यतां प्रसूतितामुपगतः प्राप्तः । 'सुकृती पुण्यवान्धन्यः' इति को:/attaयं देव देवस्वरूप शोचनीयोन शोचनीय ाचं कर्तमय यः । तस्मातोर-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७१
दिखावट