उत्तरभागः । ५६१ दुर्लभक, न जानाम्येव किमा जन्मनः प्रभृति शैशवं ते स्मृत्वात्मानमनुशोचामे | उत यौवनाभोगकारिणीं वर्तमानां रूपशोभाम् । आहोस्विवष्टम्भधीरामुत्प्रेक्ष्योत्प्रेक्ष्यागामिनीं प्रभुताम्' इति । एवं विलपन्तीं मामवलोक्य 'हृदयस्थितो मैवं कृयाश्चेतसि पुत्र, यथा वि- नापि मया जीवत्येव विलासवती । जात, त्वया विना जीवन्त्यापि पितुरेव ते कथं मया व- दनं दर्शितम् । न वेद्मि किमपि । प्रियतया ते किमाकृतेः प्रत्ययादुत स्त्रीजनसहभुवो मूढ- भावादेवेत्यद्यापि न श्रद्दधाति मे हृदयमनिष्टं ते । येन न सहस्रधा स्फुटति । स्फुटीकर्तुं च वार्ता भीता ते त्वरितकोपनीतामेव नेच्छामि । वरमनाकण्यैवाश्रवणीयमुपरतास्मीति । तात, किं ब्रवीषि यथा किर्ममुना सुतस्नेहानुचिते लोकलजाकरेण वैक्लव्येनेति । एपा स्थितास्मि ते वत्स, बचनात्तूष्णीम् । न रोदिमि ।' इत्यभिधानैवासन्नसखीजनावलम्बितशरीरा मो- हमगमत् । अथानेकसहस्रसंख्येन प्रधावता विलासवतीपरिजनेनावेदिते तस्मिन्वृत्तान्ते मन्दरास्फा- लनोद्वेलें इव महाम्भोधिरुङ्क्रान्तचेताः ससंभ्रममुत्थायार्यशुकनासद्वितीयो यामावस्थितां दुर्लभो दुःप्रापस्तस्य संबोधनं हे दुर्लभक, अहं न जानाम्येव न वेश्येव | किमाजन्मनः प्रभृत्युत्पत्तेरारभ्य प्रारभ्य ते तव शैशवं वाल्यं स्मृत्वा स्मरणं कृत्वात्मानं स्वमनुशोचामि शोकविषयीकरोमि पश्चात्तापं करोमि । उतेति पक्षान्तरे | यौवनस्य तारुण्यस्याभोगो विस्तारस्तं करोतीत्येवंशीला सा तथा तां वर्तमानां संग्रति समयवर्तिनी रूपशोभां सौन्दर्यश्रियं स्मृत्वानुशोचामि । तथा । आहोखिदिति वितर्के । अवष्टम्भः प्रारम्भस्तेन धीरां स्थि- रामागामिनीमेष्यत्कालभाविनीं प्रभुतामैश्वर्यमुत्प्रेक्ष्योत्प्रेक्ष्य विमृश्य विमृश्यानुशोचामि । इत्येवं विलपन्तीं वि- लापं कुर्वन्तीं हृदयस्थितश्चित्तान्तर्गतो मां विलासवतीमवलोक्य निरीक्ष्य मामैवं चेतसि कृथा व्यधत्थाः । किं तदित्याह – यथेति । हे पुत्र, यथा मया विनापि चन्द्रापीडं विनापि विलासवती जीवत्येव । तर्हि मृता कथं नेत्याशङ्कायामाह — जातेति । जात हे पुत्र हे वत्स, त्वया विना भवव्यतिरेकेण जीवन्त्यापि जीवनं धारय- न्त्यापि पितुरेव ते तष कथं मया वदनं मुखं दर्शितं दृग्विषयीकारितम् । अत्रार्थे हेतुमाह- इन वेनीति । अह- मत्र कारणं किमपिन वेद्मि न जाने । संशयारूढत्वेन सभ्यक्तया नावबुध्ये इत्यर्थः । एतदेव स्पष्टयन्नाह -- प्रि- यतयेति । ते तव प्रियतया वल्लभतया किमाकृतेराकारस्य प्रत्ययाद्विश्वासादुत स्त्रीजनस्य सहभुवः सहोत्पन्नस्य मूढभावादेवाज्ञानभावा देवेत्यद्यापि सांप्रतमपि ते तवानिष्टमशुभं मे मम हृदयं न श्रद्दधाति न श्रद्धत्ते । ये कृत्वा सहस्रधा सहस्रप्रकारेण न स्फुटति न स्फोटं प्राप्नोति । अहं भीता सती ते तव त्वरितकेनोपनीतां प्रा- पि॒तामेव वार्ता प्रवृत्तिं स्फुटीकर्तुं प्रकटीकर्तुं नेच्छामि नाभिलषामि । अश्रवणीयं श्रवणायोग्यमनाकण्यैव । घरमिति | उपरतास्मि हे तात, किं त्वमिति वीषि वदसि । यथा किं सुतस्नेहस्यानुचितेनायोग्येना- मुना वैक्लव्येन बैक्लव्यं चिह्नलत्वं तेनेति । एपा विलासवती हे वत्स, ते तव वचनातूष्णीं मौनं स्थितास्मि | न रोदिमि । इत्यभिधानैवेति ब्रुवाणैवासन्नः समीपवर्ती यः सखीजन आलिवर्गस्तेनावलम्बितमववृतं शरीरं
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५८
दिखावट