पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । प्रजविनी करेणुकामारुह्य रयादापिवन्निव पुरोराजमार्ग किं किमेतदित्युन्मुक्तार्तनादकलकलेन सर्वतः प्रधावता जनपदोघेनाकर्षन्निवोदेवासयन्निव पृष्ठतः सगोपुराट्टालकप्राकारभवनतो- रणामुज्जयिनीं निर्जगाम नरपतिः । उपेत्य चावन्तीमातृगृहमवतीर्य तिर्यग्विषण्णोद्वाष्पवद- नेन मलयजजलैश्च सिश्चता, कदलीद्लैश्च वीजयता, जलादैश्च पाणिपलवैः संवाहनं कुर्वता, कथंकथमपि चेतनामापद्यमानां परिजनेनार्धोन्मीलितलोचनयुगामुष्णकालकमलिनीमिव वि- लासवतीमपश्यत् । दृष्ट्वा च सहसा प्रवृत्तेन नेत्राम्भसा मूर्च्छावशेषापनयनायैव सिञ्चन्स - मुपविश्य पार्टी स्पर्शामृतवर्पिणा करेण ललाटे चक्षुपि कपोलयोरुरसि बाहश्च स्पृशञ्छनैः शनैर्वाप्पगद्गदमवादीत् –'देवि, यदि सत्यमेवान्यादृशं किमपि वत्सस्य चन्द्रापीडस्य ततो न जीव्यन्त एव । किमर्थमयमात्मा वत्सस्य कृते सकललोकसाधारणेनामुना वैक्कुव्योपगमेन तुच्छतां नीयते । इयन्ति शुभान्युपात्तानि कर्माणि । किमपरं क्रियते । नाधिकस्य भाजनं सुखस्य वयम् । अनुपात्तं हि हृदयताडनमपि कुर्वद्भिर्न लभ्यत एवात्रात्मेच्छया । विधि- वस्थितां चतुष्क्रिकास्थितां प्रजविनीं प्रकृष्टवेगवत करेणुकां हस्तिनी मारुह्यारोहणं कृत्वा रयाद्वेगात्पुरोऽग्रे रा जमार्गं श्रीपथमापिबन्निवापानं कुर्वन्निव । किं किमेतदित्युत्क्रान्त उत्थितो य आर्तनादकलकलः शब्दः कोला- हलस्तेन सर्वतोऽभितः प्रधावता जनपदोघेन नरसमूहेनाकर्षन्निवाकृष्टिं विदधन्निव । 'भवेज्जनपदो देशे जने जनपदेऽपि च ' इति विश्वः | पृष्ठतः सगोपुराहालप्राकारभवनतोरणाम् । तत्र गोपुरं प्रतोली, अहालकं प्राकाराग्रस्थितरणगृहम्, प्राकारो वरणः, भवनानि गृहाः, तोरणानि प्रतीतानि, एतैः सह वर्तते या सा ता- मुज्जयिनीं विशालामुदवासयन्निवोद्वशी कुर्वन्निवैवंविधो नरपतिस्तारापीडो निर्जगाम निर्ययौ । नगर्या इति शेषः । अवन्तीमातृगृहमुपेत्य समीपमागत्य तिर्यगवतीर्योत्तीर्य विलासवत राजापश्यद्ददर्श | अर्धोन्मीलितं लोचनयुगं नेत्रयुग्मं नयनद्वन्द्वं यया सा ताम् । अर्धोन्गीलनसाम्यादुत्प्रेक्षते - उष्णकालकमलिनीमिव ग्रीष्म- समयपद्मिनीमिव । पुनः किं क्रियमाणाम् । कथं कथमपि महता कटेन चेतनां चैतन्यं सजीवत्वमापद्यमा- नामुत्पाद्यमानाम् । केन । परिजनेन परिच्छदेन परिवारेण | परिजनं विशिष्ट - विषण्णेति | विषण्णानि विलक्षाण्युद्वाष्पाण्युदभ्रूणि मुखान्यास्यानि यस्य स तेन । किं कुर्वता | मलयजं मलयभवं चन्दनं तस्य जलैः पानीयैश्च सिञ्चता सेकं कुर्वता | पुनः किं कुर्वता | कदल्यो रम्भाखासां दलैः पर्णैः पत्रैवजयता वातं कु वता | पुनः किं विदधता । जला: पानीयोन्नैः पाणिपल्लवैः कर किसलयैश्च संवाहनमङ्गमर्दनं कुर्वता | दृष्ट्वा च वि लोक्य च सहसा सद्यः प्रवृत्तेन प्रादुर्भूतेन प्रकटीभूतेन नेत्राम्भसा नयनाम्भसा नेत्राश्रुणा मूर्च्छाया अवशेष उर्वरितांशस्तस्थापनयनायैव दूरीकरणायैव चिन्पा समीपे निकटेऽन्तिके समुपविश्यावस्थानं कृत्वा स्पर्श एवामृतं पीयूषं वर्षतीत्येवंशीलेन करेण हस्तेन पाणिना ललाटेलिके भालस्थले; चक्षुषि नेत्रे, कपोलयोर्गला- त्परप्रदेशयोः उरसि हृदये वृक्षसि, बाह्रोश्च भुजयोश्च शनैः शनैः स्पृशन्स्पर्श कुर्वन्वागदं यथा स्यात्तथा Masala