५६० कादम्बरी | त्वरितको निवेदयिष्यति । इत्यभिवदत एव तानुद्वाष्पमुखी प्रत्युवाच -- 'किमपरमयं तपस्वी निवेदयिष्यति । दूरतः प्रभृत्यैपसृत प्रहर्षेणैवोपसर्पणेन प्रतिलेखमालिकाशून्यैः शिरोभिरावि- पण्णदीनैराननैः प्रयत्नसंरक्षितामोक्षदुःखिताभ्यां लोचनाभ्यां मैन्मुखसमक्षमधारणेन च दृष्टेर्यदावे दित्तव्यं तद्भवद्भिरेवावेदितम् । हा वत्स, जगदेकचन्द्र, चन्द्रापीड चन्द्रानन, चन्द्रशीतलप्रकृते, चन्द्राभिरामगुण, लोचनानन्दभूत, किं भूतं ते येन नागतोऽसि तात चन्द्रापीड | पीडिता ब्रवीमि न कोपादुपालभमाना | न युक्तमेतत्तवाम्ब, न परिलम्बं मना• गपि करोमीति तथा मे पुरः प्रतिज्ञायान्यत्र काप्यवस्थातुम् | वत्स, गच्छत एव ते मयास्य हृतहृदयस्य शङ्कयैव ज्ञातं दुष्करं मे वत्सस्य पुनर्मुखावलोकन मिति | बलागतोऽसि । किं करोमि । को वात्र दोषो वत्सस्य | मन्दभाग्याया ममैवैतान्यपुण्यानां विलसितानि | भव- न्स्यैपुण्यवत्योऽपि लोके न पुनर्मया सदृशी पापकारिणी | यस्यास्त्वमेक एवमकाण्ड एवाँ - च्छिद्य कापि नीतोऽसि । विप्रलब्धास्मि दग्धवेधसा | वत्स, सुदूरस्यापि पादयोः पतामि ते । निवर्तस्यैकवारम् | अम्बेत्यालपतस्ते वदनमवलोकयितुमुत्कण्ठितं मे हृदयम् । जात त्वरितको युवराजभृत्यो निवेदयिष्यति कथयिष्यति । इत्यभिवदत एवेति ब्रुवत एव तानुदूर्ध्वं बाष्पो नेत्राम्बु यस्मिन्नेवंभूतं मुखमाननं यस्याः सा विलासवती प्रत्युवाच प्रत्यव्रवीत् । किमपरमन्यदयं तपस्वी वराकः । शोच्य इति यावत् । निवेदयिष्यति । दूरतः प्रभृति दूरादारभ्यापसृतो दूरीभूतः प्रहर्षो यस्मादेवंभूतेनोपस - र्पणेन समीपागमनेन प्रतिलेखानां ततः प्रहितपत्राणां मालिकाशून्यैः स्रग्रहितैः शिरोभिरुत्तमानैरासमन्ता- द्विषण्णानि विलक्षाणि च दीनानि दुःखितानि चाविषण्णदीनान्येवंभूतैरान नैर्मुखैः प्रयत्नेनोद्यमेन संरक्षित मश्रु- मोक्षणं तेन दुःखिताभ्यां लोचनाभ्यां नयनाभ्यां नेत्राभ्यां दृष्टेर्दृशो मन्मुखसमक्षं यदधारणमस्थापनं तेन च यदावेदितव्यं निवेदनार्हं तत्सर्वं भवद्भिरावेदितं कथितम् । हा इति खेदे | हे वत्स हे पुत्र, हे जगति लोक एकोऽद्वितीयश्चन्द्र, हे चन्द्रापीड | चन्द्रवदाननं मुखं यस्य तस्य संबोधनम् | चन्द्रवच्छीतला शिशिरा प्र. कृतिः स्वभावो यस्य तस्य संबोधनम् । चन्द्रवदभिरामा उज्ज्वला गुणा यस्य तस्य संबोधनम् | लोचनानां नेत्राणामानन्दभूतः प्रमोदभूतस्तस्य संबोधनम् । ते तव किं भूतं किं जातं येन हे तात हे पुत्र, चन्द्रापीड, त्वं नागतो नायातोऽसि । 'तातः पितरि पुत्रे च' इत्यनेकार्थः । पीडिताहं ब्रवीमि । न कोपात्क्रोधादुपालभ- मानोपालम्भं ददाना । किं कथितवतीलाह - न युक्तमिति । हे अम्ब हे मातः, न परिलम्बं विलम्बं म- नागपि करोमीति तथा तेन प्रकारेण पुरोऽये प्रतिज्ञाय प्रतिज्ञां कृत्वान्यत्रान्यस्मिन्स्थले काप्येवमवस्थातुं न युक्तमेतत् । हे वत्स हे पुत्र, ते तव गच्छत एव व्रजत एव मयास्य हतहृदयस्य हतचेतसः शङ्कयैवारेक थैवेति ज्ञातमवगतम् । इतिज्ञाप्यमाह - दुष्करमिति । दुष्करं कठिनं मे वत्सस्य पुनर्मुखावलोकन मिति वक्रनिरीक्षणमिति । बलाद्धठात्त्वं गतोऽसि । किं करोम्यहम् । अत्र वत्सस्य पुत्रस्य को वा दोषोऽपराधः । मन्दभाग्यायाः खल्प वाया ममैवापुण्यानामत्रेयसामेतानि विलासितानि विचेष्टितानि | लोकेऽपुण्यवत्योऽपि
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५७
दिखावट