४८० - च्छेदः । तिष्ठतु तावदस्माकं तवोपरि स्नेहो भक्तिर्वा । अस्मिंस्तु शून्यारण्ये भवन्तमेका कि- नमुत्सृज्य गताः सन्तो देवेन चन्द्रशीतलप्रकृतिना चन्द्रापीडेनैव किं वक्तव्या वयम् । कि- मन्यो देवश्चन्द्रापीडोऽन्यो वा भवान् | तदुन्मुच्यतामयं संमोहः । गमनाय धीराधीयताम्' इत्यभिहितोऽस्माभिरीपदिय विलक्षहासेन वैचनेनास्मानवादीत् – 'किमहमेतावदपि न वेद्मि, यद्गमनाय मां भवन्तः प्रबोधयन्ति । अपि च चन्द्रापीडेन विना क्षणमध्यहमन्यत्र न पार- यामि स्थातुम् । एषैव मे गरीयसी परिबोधना । तथापि किं करोमि । अनेनैव क्षणेन सर्वत्र विगलितं मे प्रभुत्वम् । तथाहि स्मरन्निव किमपि मनो नान्यत्र प्रवर्तते, पश्यन्तीव किमपि न दृष्टिरन्यतो वलति, आसक्तमित्र कापि हृदयं किमपि न जानाति, निगडिताविवे पद्मपि दातुं न चरणावुत्सहेते । कीलितेव चास्मिन्नेव स्थाने तनुः । तदात्मना त्वमसमर्थो यातुम् । अथ वलाद्भवन्तो मां निनीपवः; तत्रापि चलितस्यास्मात्प्रदेशादात्मनो जीवितधारणं न संभावयामि । अत्र तु पुनस्तिष्ठतो यदेतदन्तर्हृदये किमप्यनवसीयमानं विपरिवर्तते मे । येनैव विवृतोऽस्मि तेनैवावश्यं धार्यन्ते प्राणा इति चेतसि मे । तदलं निर्व॑न्धेन । गच्छन्तु भवन्तः । भवतु यावज्जीवभा तृप्तेश्चन्द्रापीडदर्शनसुखम् | अल्पपुण्यस्य तु तन्मे प्राप्तमपि ग्रमर्पयित्वा वितीर्य गते सति तत्परित्यागेन तद्राहित्येनात्राच्छोदसरस्यवस्थानं कस्यापरस्य त्वदभिन्नस्येदृशो युक्तायुक्तयोर्म्याग्यान्याय्ययोः परिच्छेदो निर्मायते । अस्माकं तवोपरि त्रेहः प्रीतिर्भक्तिर्वा आराध्यत्वेन ज्ञानं तावत्तिष्ठत्वास्ताम् । अस्मिंस्तु शून्यारण्ये जनरहिताटव्या मे का किनमसहायं भवन्तमुत्सृज्य त्यक्त्वा गताः सन्तो वयं चन्द्रवच्छीतलप्रकृतिना शिशिरस्वभावेन देवेन चन्द्रापीडेनैव किं वक्तव्याः किं कथनीयाः । किमन्यस्त्व- दितरः देवः चन्द्रापीडोऽन्यो वा चन्द्रापीडाद्भिन्नो भवांस्त्वम् । तदिति हेत्वर्थे । अयं संमोहोऽज्ञानमुन्मुच्यतां त्यज्यताम् । गमनाय धीवुद्धिराधीयतां स्वीक्रियताम् । 'इति पूर्वोक्तप्रकारेणास्माभिरभिहितः कथित ईषदिव म नागिव विलक्षं वीक्षा पन्नं हासो हास्यं यस्मिन्नेवंविधेन वचनेनास्मानवादीदब्रवीत् | अहमेतावदप्येतावन्मात्रमपि किं न वेद्मि न जानामि, यद्यस्मात्कारणाद्भवन्तो मां गमनाय प्रबोधयन्ति प्रवोधं कुर्वन्ति । अपि चेति प्र- कारान्तरे | चन्द्रापीडेन विनान्यत्रान्यस्मिन्प्रदेशेऽहं क्षणमपि स्थातुं न पारयामि न समर्थो भवामि । एपैव पूर्वोक्तव मे मम गरीयसी गरिष्टा परिबोधना प्रतिवोधः । तथापीति । अहं किं करोमि किं कुर्वे । अनेनैव क्षणेन समयेन मे मम प्रभुत्वं सामर्थ्य सर्वत्र सर्वस्मिन्थले विगलितं विनष्टम् । तदेव दर्शयन्नाह — तथाही- ति । मनोऽन्यत्र किमपि न प्रवर्तते । अत उत्प्रेक्षते - स्मरन्निव स्मृतिं कुर्वन्निव | दृष्टिदृक्किमप्यन्यतो न वलति न पश्चान्नवर्तते । अत उत्प्रेक्षते - पश्यन्तीव विलोकयन्तीव | हृदयं चेतः कापि कुत्रापि किमपि न जानाति नावकलयति । अत उत्प्रक्षते - आसक्तमिवालग्नमिव | चरणौ पादौ पदमपि दातुं नोत्सहेते नोत्साहं कुर्वाते । अत उत्प्रेक्षते – निगडिताविव नियन्त्रिताविव । अस्मिन्नवस्थाने मे तनुः शरीरं कीलितेव कील्या नियन्त्रितेव । तत्तस्मात्कारणादात्मना तु स्वेन त्वहं यातुमितो गन्तुमसमर्थोऽक्षमः । अथेति प्रकारान्तरे । भवन्तो यूयं बलाद्धठान्मां वैशम्पायनं निनीपवो नेतुमिच्छवः । तत्रापि तस्मिन्नपि प्रदेशेऽस्मात्प्रदेशाच्चलितय गन्तुं प्रवृ
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७७
दिखावट