३९८ कादम्बरी १ स्तूयमानाम् स्थूलस्थूले: शिंराजालकैगधागोलिकाककलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैर्गवाक्षितेन, अलक्ष्मीसमुत्खातलक्षणस्थानैरिव विस्फोटकव्रणबिन्दुभिः कल्माषित- सकलशरीरेण, कर्णावतंस संस्थापितया चचूडया रुद्राक्षमालिकामिव दधानेन, अम्बिकापाद- पतनश्यामललाटवर्धमानबुंदेन कुँवादिदत्तसिद्धा जनदानस्फोटितैकलोचनतया त्रिकाल- मितरलोचनाञ्जनदानदरणीकृतदारुशलाकेन, प्रत्यहं कटुकालाबुस्खेदप्रारब्धदंतुरताप्र- तीकारेण, कथंचिदस्थानदत्तेष्टकाप्रहारतया शुष्कैकभुजोपशान्त मर्दनव्यसनेन, उपर्युपर्यवि श्रान्तकटुवर्तिप्रयोगवर्धित तिमिरेण अश्मभेदसंगृहीतवराहदष्ण इजदीकोषकृतौषधाञ्ज- नसंग्रहेण सूचीस्यूत शिर/संकोचितवामकराङ्गुलिना, कौशेयककोशावरणक्षतिव्रणितचरणा- अष्टकेन, असम्यकृतरसायनानीताकालज्वरेण, जरां गतेनापि दक्षिणापथाधिराज्यवरप्रार्थ- , 9 १ - कठोरवायसगणेन सकृत्प्रजसमूहेन च स्तुतिपरेण स्तूयमानां नूयमानाम् । अथ द्राविडधार्मिकं विशेषयन्नाह - स्थूल इति | स्थूलानि स्थूलानि च स्थूलस्थूलानि तैः शिराजालकैर्नांडीसमूहैर्गवा क्षितेन सर्वत्र जालकमयी भूतेन । तत्र शिराजालकस्य पीनस्थूलरूपतया तत्साम्येनाह -- गोधेति । नीलवसाम्यात् । दग्धो ज्वलितो यः स्थाणुः कीलकस्तस्याशङ्कारेका तया | गोधा प्रसिद्धा, गोलिका पल्ली, कृकलासः सरटः एतेषां कुलैरिव समू- हैरिव समारूढैराश्रितैः । अलक्ष्मीति | अलक्ष्म्या अश्रिया समुत्खातानि मूलत उन्मूलितानि यानि लक्षणानि सामुद्रकशास्त्रोक्तानि तेषां स्थानैरिव विस्फोटकाः प्रसिद्धास्तेषां व्रणबिन्दुभिः कल्माषितं चित्रितं सकलं समग्रं शरीरं यस्य स तेन | कर्णेति । कर्णावतंसे संस्थापितया न्यस्तया चूडया शिखया रुद्राक्षमालिका मिच दधानेन वारयता | अम्बिकेति । अम्बिकायाः पार्वत्याः पादपतनेन श्यामं कृष्णं यललाटमलिकं तत्र वर्ध- मानो बुद्बुदः स्थासको यस्य स तेन । शरीरं कदर्यरूपमुक्त्वा तत्प्रसङ्गेनेन्द्रियाणां दन्तादीनां कदर्यत्वं कपट क्रिया- सावनानां चातिशयत्वं व्यञ्जयन्पुनस्तमेव विशेषयन्नाह – कुवादीति | कुवादी मिथ्यावादी तेन दत्तं सिद्धा- जनं नेत्रौषधं तस्य दानं नेत्रयोः प्रक्षेपस्तेन स्फोटितं नाशितमेकं लोचनं यस्य तस्य भावस्तत्ता तथा । त्रिका- लमिति | त्रिकालं कालत्रये इतरस्मिन् एकस्मिलोचने यदञ्जनदानं तदर्थमादर आग्रहस्तेन लक्षणीकृता दारु- शलाका येन । पुनः पुनर्नेत्राञ्जनसंवन्धेन दारुशलाकापि लक्ष्णीकृतात्यन्तमृदुतामापादितेत्यर्थः । एतेन निरव- धिकदेवानांप्रियता दार्शता । प्रत्यहमिति । प्रत्यहं निरन्तरं कटुकं यदलावु तुम्बीफलं तस्य यः खेदरत- निःसृतं जलं तेन प्रारब्धादन्तुरतोन्नतदन्तता तस्याः प्रतीकारश्चिकित्सा येन | आमवातजडीकृतदेहस्य तैलवि शेष मर्दनानन्तरं कारजाग्नितप्तेष्टिकानां प्रहारः क्रियते । तमधिकृत्याह – अस्थानेति । यत्राग्नितप्तेष्टिकाप्रहार उक्तो नास्ति तस्मिन्नङ्गे, अत एवास्थाने दत्तो य इष्टिकाप्रहारस्तस्य भावस्तत्ता तथा । शुष्केति । अचिकि- त्सित एकस्मिन्भुज उपशान्तं निष्ठाप्राप्तं मर्दनव्यसनं यस्य स तेन । कुत्सिततैलप्रयोगवशाद्दीपालोके सत्यप्य- न्धकार एवेत्यधिकृत्याहृ – उपर्युपरीति । उपर्युपर्यविश्रान्तं निरन्तरं कटुकवर्तिप्रयोगेण वर्धितं तिमिरं येन । अश्मेति । अश्मभेदार्थ प्रस्तरखण्डार्थ संगृहीता आत्ता वराहाणां वनक्रीडानां दंष्ट्रा येन । इज्डदीति । इङ्गुदी AUDANI हो
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९६
दिखावट