सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पू भागः । ३२३ को किलविलोचनच्छविबभ्रूण चारुणयति सांध्ये भुवनमचिषि, यथाप्रधानमुन्मिपत्सु ग्रह- ग्रामेषु, वनमहिषमलीमसवपुषि चे मुषिततारकापथप्रथिम्नि कालिमानमातन्वति शार्वरे तमसि, अतनुतिमिरतिरोहितहरिलतासु गहनतां यान्तीपु वनराजिषु, रजनिजलजालबिन्दु- जनितजडिम्नि बहलवनकुसुगपरिमलानुमितगमने चलितलताबिटपगहने प्रवृत्ते च पवने, निद्रानिभृतपतत्रिणि त्रियामामुखे महाश्वेता मन्दमन्दमुत्थाय भगवतीमुपास्य पश्चिमां संध्यां कमण्डलुजलेन प्रक्षालितचरणा वल्कलशयनीये सखेदमुष्णं च निःश्वस्य निषसाद | चन्द्रापीडोऽप्युत्थाय सकुसुमं प्रस्रवणजला जर्लिंम वकीर्य कृतसंध्याप्रणामस्तस्मिद्वितीये शि- लातले मृदुभिर्लतापल्लवैः शय्यामकल्पयत् । उपविष्टश्च तस्यां पुनस्तमेव मनसा महाश्वेतावृ- त्तान्तमन्वभावयत् । आसीच्चास्य मनस्येवम्-'अयमप्रतीकारदारुणो दुर्विषहवेगः कष्टः कुसुमायुधः, यदनेनाभिभूता महान्तोऽप्येवमनक्षितकालक्रमाः समुत्सारितधैर्याः सद्यो जीवितं जहाति । सर्वथा नमो भगवते त्रिभुवनाभ्यचितशासनाय मकरकेतनाय' इति । पुनः पप्रच्छ चैनाम् –'भगवति, सातवे परिचारिका वनवासव्यसन मित्रं दुःखसब्रह्मचारिणी कोकिलेति । कोकिला वनप्रियास्तेषां विलोचनानि नेत्राणि तेषां छविः कान्तिस्तद्वद्व भ्रूण कद्रूणि । पुनः केषु | ग्रहग्रामेपूडसमूहेषु यथाप्रधानं यथामुख्यमुन्मिपत्सु विकसत्सु | पुनः कस्मिन् | शार्वरे शर्वरीसंब- न्धिनि तमस्यन्धकारे कालिमानं श्यामलिमानमातन्वति विस्तारयति सति । अथ तमो विशिष्टि – वनेति । वनस्यारण्यस्य यो महिषो रक्ताक्षस्तद्वन्मलीमसं वपुर्यस्य तत्तस्मिन् । अत एव मुषितस्तारकापथस्याकाशमार्गस्य प्रथिमा विस्तारो येन तत्तस्मिन् । पुनः कासु | वनराजिष्वरण्यश्रेणीषु गहनतामकलनीयतां यान्तीषु गच्छन्तीषु सत्सु । अतनु यत्तिमिरं तमस्तेन तिरोहिताच्छादिता हरितता नीलिमा यासु । पुनः कस्मिन् | पवने वायौ प्रवृत्ते वहमाने व सति । अथ पचनस्य शीतत्वमन्दत्वसुगन्धित्वानि वर्णयितुमाह - रजनीति | रजन्येवानवरप्रच- लनरूपप्रवाहवत्त्वाज्जलजालं समूहस्तस्य बिन्दुभिः पृषतै रित्यर्थो वाजनितो जडिमा यस्य स तस्मिन् | बहलेति । बहलान्य विरलानि यानि वनकुसुमानि तेषां परिभलेनानुमितमनुमानविषयीकृतं गमनं यस्य स तस्मिन् | चलि- तेति । चलितं कम्पितं लतोपयुक्ता विटपा वृक्षास्तेषां गहनं येन स तस्मिन् । अथ त्रियामामुर्ख विशेषय- नाह - निद्रेति । निद्रा प्रमीला तथा निभृता निश्चलाः पतत्रिणः पक्षिणो यस्मिन् | तदनन्तरं चन्द्रापीडो- ऽप्युत्थाय सकुसुमं कुसुमैः सहवर्तमानं प्रसवणस्य निर्झरस्य जलाञ्जलिम वकीर्य विक्षिप्य | कृतेति । कृतो विहितः संध्याप्रणामो येन स तस्मिन्मण्डपिकास्थले द्वितीये तदङ्गीकृतादन्यस्मिञ्शिलातले मृदुभिः सुकुमारैल- तापल्लवैर्वल्लोप्रवाः शय्यां शयनीयमकल्पयदकरोत् । उपविष्टश्चेति । तस्यां शिलायामुपविष्ट आ सेदिवान्पुनस्तमेव पूर्वोक्तमेव महाश्वेतावृत्तान्तं मनसा चित्तेनान्वभावयत्पुनरचिन्तयत् । आसीच्चेति । अस्य चन्द्रापीडस्य मनसि चित्त एवमासीत् | एवंपदार्थमाह - अयमिति । अयं कुसुमायुधः कंदर्पः कष्टोऽनर्थकृत् । अथ कुसुमायुधं विशिनष्ट – अप्रतीति । अप्रतीकारेणाप्रतिक्रियया दारुणो भीषणः । दु-