430 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः पृथिवीत्ववत् व्यवहाराभावेऽपि मायात्वा नपायात्, ऐन्द्रजाल कादौ बहुशो मायाशब्दप्रयोगदर्शन्नाच, मायाया अज्ञाना- न्यत्वे ज्ञाननिवर्त्यत्वविरोधाच्च ।) नहिारतमः शब्दावप्यस्मिन्मते अज्ञानस्यावारकत्वाद्य॒ज्येते नान्यमते । अनृतनीहारादि- ' भूतानीन्द्रियाणि विराजं दैवताः कोशांश्च सृष्टा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवायमात्मे ' ति तापनीये मूतेन्द्रि- यादीनां मायामयत्वेन तत्प्रविष्टस्याप्यात्मनस्तच्छून्यत्वेनाद्वयस्वभावत्व- मुक्तम् । 'मयब्ध सम्बरश्चैव महामायाधरावुभौ । पर्जन्यवारुणी माये व्यघत्ता' मिति हरिवंशे पर्जन्यवारुणास्त्राभ्यां मन्त्रविशेषविशिष्टाभ्यां जानते मिथ्याभूते मायापदं प्रयुक्तम् । भागवतादावपि मिथ्यामारीचस्य . 'मायामृगं दयितयेप्सित मित्यादिना मायात्वमुक्तम् । रामशरवेध्यत्वादि- कं तु न सत्यत्वे प्रयोजकम्; यथानुभवमर्थक्रियाकारित्वस्य मिथ्या- भूतेऽपि संभवात्, मिथ्यात्वन त्वदुक्तैन्द्रजालिकादेरर्थक्रिया कारित्वदर्श - नात् । ऐन्द्रजालिकादौ मायाशब्दप्रयोगादपि तस्य मिथ्या रूढत्वम् । न च - शक्तिविशेषरूपमायापदमुख्यार्थजन्यधीविषयत्वात्तत्रोपचारात्तत्प्र- योग इति वाच्यम् ; मिथ्या रूपमुख्याथजनकत्वेन शक्तिविशेष एवोप- चारात्, अन्यथोक्तस्मृत्यादिविरोधादित्याशयेनाह – ऐन्द्रेति ! नीहा- रतमःशब्दाविति । 'न तं विदाथ य इमा जजान अन्यधुष्माकम- न्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ती' त्यत्र, ‘सुषुप्तिकाल सकले बिलीने तमोऽभिभूत ' इत्यादौ चेत्यादिः । युज्ये- तेति । अज्ञान इत्यादिः । नान्यमत इति । अज्ञानस्यैवावारकत्वादि- संभवस्योक्तत्वादिति शेषः । अत एव माधवयभाप्ये व्याख्यातं ' हे नरास्तं न जानीथ य इमाः प्रजा जजान जनितवान् तत्र हेतुः 1 शम्बरचैव-ग --- • -
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९५७
दिखावट