पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] शब्दानां दुष्कर्मपरत्वे श्रुत्यन्तरोक्तजीवेशभेदकत्वोपादानत्वादि- विरोधथ | तस्मात् 'अनृतेन प्रत्यूढाः "नीहारेण प्रावृताः' 'तम । आसीत् ' 'मायां तु प्रकृतिं विद्यात्' 'अजामेकां लोहितशुक्लकृ- युष्माकामन्यदेवान्तरं व्यवधानं बभूव तदुच्यते नीहारसदृशेनाज्ञानेन प्रावृता यूगं जल्प्या 'अहं मनुष्य ' इत्यादिजल्पनशीला असून् प्राणान् तर्पयन्ति उक्थं स्तोत्रविशेषादिकं शंसन्ति चरन्ति ऐहिकामुष्मिकभोग- मात्रपरा ' इति । दुष्कर्मपरत्वे आवरकपापपरत्वे । श्रुत्यन्तरेति । ' अनीशया शोचति मुह्यमान' इत्यादिश्रुत्युक्तेत्यर्थः । आवरकस्ये- त्यादिः । मोहप्रयुक्तेनेशाया ईशत्वस्य विरोधिना ईशभेदेन शोचति संसरतीत्युक्तश्रुत्यर्थः । एषा मायेत्यायुक्त श्रुत्यापि जीवेशभेदकत्वं कार्य- मात्रोपादानत्वमावर कादिरूपत्वं च मायाया उक्तम् । उपादानत्वा- दीत्यादिन। त्रिगुणात्मकत्वादि ग्राह्यम् । तथाच कर्मण आवरकत्वे तस्यैव मोहत्वाद्भेदकत्वादीति वाच्यम् । न च सादेस्तस्यानादिभेद- प्रयोजकत्वं सकलकार्योपादानत्वादिकं वा संभवतीति भावः । " विभेदजन केऽज्ञाने नाशमात्यन्तिकं गतं । 6 अज्ञान-श्रुत्युपपत्तिः 431 भवत्यभेदो भेदश्च तस्याज्ञानकृत इति विष्णुपुराणादौ स्पष्टमज्ञानस्य भेदकत्वादीति' बोध्यम् । 'देवादिभेदमध्यास्ते नास्त्येवावरणो' हि सः ' , इति विष्णुपुराणे भेदनाम्तित्वे आवरकप्रयुक्तत्वम्य हेतूकृतत्वात्तस्य तत्प्रा- माणिकमित्यादि बोध्यम् । तस्मादित्यादि । नीहारण जल्प्या असुतृप उक्थशासश्चरन्तीत्यन्वयादृश्यमात्रस्य नीहाररूपावरणप्रयोज्यत्वं 'नास- दासीन्नो सदासीत्तम आसी' दित्यादौ सदसद्विलक्षणत्वं प्रोक्तं न पापस्य संभवतीत्यदि बोध्यम् ॥ भेिदकत्वादि - क. ग. " वग्णे-ग.