पारच्छेदः] प्रतिकर्म व्यवस्थोपपत्तिः 167 , त्प्रागज्ञानमस्तीत्यभिप्रायेण विषयात्प्रागज्ञानमस्तीति साधूक्तम् । तस्मादधिष्ठानचैतन्यं स्वाध्यस्तं भासयतीति सिद्धम् । तदयमत्र कारेऽपि दण्डादिना घटादीनामिव ज्ञानेन निवृत्तिसम्भवात् । तासा- मज्ञानाभेदादज्ञानं नष्टमित्यादिव्यवहार इति न तासां कल्पना व्यर्था । यदपि नोपहिते चैतन्येऽज्ञानम् ; तस्य जडत्वात्, किंतु शुद्धे, तस्य च घटाद्यवच्छेदोऽपीत्य वच्छिन्नमावृतमुच्यते इत्ययुक्तम् ; तथा सति तमो- घटाभ्यां युक्ते भूतले प्रकाशसम्बद्धे भूतलस्येव, अज्ञानघटाभ्यां युक्ते शुद्धचैतन्ये प्रकाशसम्बन्धे तस्यापि प्रकाशः स्यादिति, तत्तुच्छम् ; घटावच्छेदेन हि भूतले आलोकसम्बद्धे तदवच्छेदेनैव तत्प्रकाशो न त्वन्यावच्छेदेनेति त्वद्दृष्टान्तेनैव त्वन्मुखपिधानात् । ननु – नाना- ज्ञानपक्षो न युक्तः ; एकाज्ञाननाशकशुक्तयादिज्ञानेनान्येषामज्ञानानामिव शुक्तघाद्यज्ञानमात्रस्य प्रतिरुद्धत्व सम्भवेन ब्रह्मान्यज्ञानमात्रस्याज्ञाननाश- कत्व' प्रसङ्गादिति --- चेन्न; शुक्तयज्ञानं शुक्तिज्ञानेन नष्टमित्याद्यनु- भूतिपालनाय शुक्तधादिज्ञानस्याप्यज्ञानना शकत्वस्वीकारात् || १ --- , - यत्तु – यदवच्छिन्नगोचरा वृत्तिस्तदवच्छेदेनावरणापसारणान्ना- नवच्छिन्नचिदावरणभङ्ग इत्ययुक्तम् ; शाखावच्छेदेन संयोगाधारस्य वृक्षत्ववद्धटाद्यवच्छेदेन भग्नावरणस्यापि शुद्धचित्वान्मोक्षापत्तेरिति --- तचुच्छम् ; एकदेशनाशपक्षे हीदमुक्तम् एकदेशनाशश्च घटादि- निष्ठस्याज्ञानविषयतावच्छेदकत्वस्य वृत्तिकाले वृत्त्यभावविशिष्टत्वेना- व्याप्यवृत्तितया वा विरहः, न च तावता ब्रह्माज्ञाननिवृत्तिरापद्यत इति व्याख्यातम् । तस्मादबोधमूलकः परप्रलापः || 9 तस्मादिति । उक्तदोषाणामुद्धारादित्यर्थः । घटादौ जीवस्या- नुपाड़ानत्वे सर्वगतस्यापि तस्यासङ्गस्योपरागार्था वृत्तिरिति पक्षेऽपि 1 ज्ञानानाशकत्व - ख. घ.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८६
दिखावट