परिच्छेदः] न च- अनुकूलतर्कनिरूपणम् 97 'घटोऽयमित्यसौ वृत्तिराभासस्य प्रसादतः । विज्ञातो घट इत्युक्तिर्ब्रह्मानुभवतो भवेत्' || इति वदता वृत्तिप्रतिबिम्बितस्य घटानधिष्ठानचैतन्यस्य घटानु- भवत्वाक्तिविरोध इति – वाच्यम्; वृत्तिप्रतिबिम्बितचैतन्यस्य घटाधिष्ठानचैतन्येन सह भेदाभावात्, चैतन्यस्यैकत्वात् । यथा चैकस्यैव चैतन्यस्य सर्वभासकत्वं तथा विस्तरेणोपपादितं 'नाभाव उपलब्धे' रित्यस्मिन्नधिकरणे भाष्यकृद्भिः । ननु - कालसामान्ये तथानुभवसत्वात् घटज्ञानकार्यं स्यात्, तन्मते तु न तत्सामान्ये स इति न तदापत्तिरिति – वाच्यम्; मन्मतेऽपि सर्वमज्ञानं सर्वदा नावृणोतीति स्वीकारेणाज्ञानसम्बन्धम्य तन्निवर्तकप्रमित्यव्यवहित- पूर्वमेव स्वीकारात् । 'योगिनां 'कारणत्वादिग्रहादानुपयुज्यत इत्ययो गिनं प्रत्यसत्वं ते न दुर्वारम् । किंच योगिनामज्ञातकारणत्वादिग्रहेऽ- ज्ञाताभिव्यक्तयर्थं प्रवृत्तौ वा साक्ष्येव शरणमिति दिक् ॥ आभासस्येति । वृत्तिप्रतिबिम्बित चैतन्यम्यत्यर्थः । ब्रह्मानु- भवतः ब्रह्माभिन्नसाक्षिणः । अज्ञातत्वेनेव ज्ञातत्वेनापि सर्वस्य साक्षि- माम्यत्वात् ज्ञातत्वेन व्यवहारः साक्षिणेत्यर्थः । उक्तं हि विद्यारण्यैः- ' घटेकाकारधीस्था चिद्धटमेवावभासयंत् । घटस्य ज्ञातता ब्रह्मचैतन्येनावभास्यते' || इति । . भेदाभावादिति । अत्यन्तभदाभावादित्यथः । चतन्यस्य शुद्धचिदुपहितचितोः । एकत्वात् तादात्म्यात् । तथाच घटादि- भासने मनोवृत्तिरपेक्ष्यते न तु तद्भासन इत्याशयेनाभासब्रह्म शब्दाभ्यां पृथनिर्देश इति भावः । नाभाव उपलब्धेरित्यस्मिन्निति | विज्ञानम्य 1 योगिनां तु नायोगिनां - ख.ग. 2 कारणत्वग्र - ग. ADVAITA. VOL. II ● 7
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२६
दिखावट