पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सब्याख्यायामद्वैतसिद्धौ [प्रथमः स्वभिन्नार्थग्राहकत्वे प्रत्यक्षीकृतं तदर्थग्राहकं वाच्यम् । नहि तच्चक्षुरा- दिकमिवार्थे कञ्चनातिशयं प्रत्यक्षतारूपमाधत्ते, अपितु तत्प्रत्यक्षतैवार्थ- प्रत्यक्षता । तदुक्तम् 'अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यती' ति । उपलम्भो यदि प्रत्यक्षो न स्यात्तदा चक्षुरिवान्यामर्थदृष्टिं जनयेत्, सा चन सम्भवत्यनवस्थानात् । किञ्च ज्ञानस्य प्रत्यक्षत्वनियमाभावे ज्ञानस्य विद्यमानस्याभावभ्रमः संशयो वा कदाचित्स्यात् ॥ 98 1 3 अथ -- ज्ञानान्तरेण प्रत्यक्षीकृतं ज्ञानमर्थप्रकाश इति वाच्यम् ; तथापि तस्य ज्ञानान्तरस्य ज्ञानान्तरेण प्रत्यक्षता, तस्यापि ज्ञानान्तरेणे- त्येवमनवस्था । ' तस्मात् स्वनैव विषयकृितत्वेन प्रत्यक्षीकृतं ज्ञानमर्थ- ग्राहकमिति बौद्धशङ्कायां, मैवम् ; यथा हि पक्ता पाक्य पाकेन व्याप्नोति, न तु पाकं पाकान्तरेण, किंतु स्वयमेव पक्ता पाकं प्राप्नोति, न वा पाक एव पक्य: * एवं साक्षी प्रमेयं प्रमया व्याप्नोति, न तु प्रमां प्रमान्तरेण, किंतु स्वयमेव साक्षी प्रमां व्याप्नोति, नवा प्रमैव प्रमात्री । मनःपरिणामस्य हि ज्ञानसुखादे : स्वच्छत्वेन साक्षिप्रतिबिम्बवत्तया* मनःपरिणामान्तररूपज्ञाननैरपेक्ष्येणैवापरोक्षता । अन्यथा विद्यमानोऽपि स दैवात्स्वा" कार मनोवृत्त्यनुत्पादे कदाचिन्न प्रकाशेत सन्दिह्येत वा, तद्वति तदभावभ्रमो वा स्यात् । नियमेन तदाकारवृत्ति कल्पनमप्यनव- स्थादुष्टम् । व्यर्थं च, साक्षिणैव तत्प्रत्यक्षतासम्भवात् । तस्मात्स्वतः साक्ष्यभिव्यक्तावक्षमस्य घटादे: स्वाकारवृत्त्यपेक्षप्रत्यक्षताकत्वेऽपि स्वतः साक्षिव्यञ्जकस्य मनोवृत्त्यादेर्न तथेति साक्षिणैव प्रत्यक्षता । साक्षी तु नानुभवान्तर विषयां येनानवस्था स्यात्; अपितु स्वप्रकाशः | तत्वं चाज्ञेयत्वे सति ज्ञानत्वोपलक्षितम्वरूपत्वं, तच्च नित्यापरोक्षत्वोपलक्षित- · तत्स्वेनैव- -ख. 2 पक्तयं - क. पच्यं - ग. उपक्ता-ग. साक्षिप्रति- 5 सदैव स्वा- ग. बिम्बतया - क.