परिच्छेदः] भाविबाधोद्धारः कत्वायोगादिति चेन्न; बाधकधियो भेदविषयत्वानभ्युपगमात इयं शुक्तिरित्येव बाघबुद्ध युदयात् । तस्यास्तु नेदं रजत मति भेदबुद्धिः फलम् । व्यावृत्ताकारतैव बाधधिय आवश्यकी। सा च स्वरूपोपलक्षणबलान्निष्प्रकारकब्रह्मज्ञानेऽपि अस्तीति न बाघ- कधीबोध्यत्त्रं भेदस्य । ननु - स्खविलक्षणं फलपर्यन्त परीक्षाया- मिति चेच्छङ्का स्यात्तदा अद्वैतश्रुतिप्रत्यक्षतत्प्रामाण्यशङ्कायाम- द्वैतश्रुतिर न सिद्धयेत् । बाधेऽपि बाघशङ्कायामबाधितबाघ- प्रसिद्धिरपि न स्यात् । बाधितबाधशङ्कायाश्च अबाध्यत्वाविरोधि- 371 1 भासादिजन्यप्रनानुनित्यादिसाधारण्येनेति शेषः । मिथ्यात्वधी रूपे बाघे दृश्यत्वादे स्वप्रयोजकाज्ञानसहितस्य विषयस्योच्छेदरूपे बाधे चाधि- ष्ठान तत्त्वज्ञानस्य प्रयोजकत्वनिति भावः | बाधकधिय इति । यावत्या इत्यादिः । तेन रजतभेदाज्ञानजन्यभ्रमबाधकबुद्धेः भेदविषयकत्वऽपि न क्षतिः । इत्येत्रेत्यादि । एतावन्मात्राकाराया अपि बाधबुद्धेरुदया- दित्यर्थः । बाधकधीति । बाघकधी मात्रेत्यर्थः । यथाश्रुते शुक्तित्वादिना ज्ञानेऽपि रजतान्यत्वादिरूपेण अज्ञानाधीनम्रमस्य तेन रूपेण ज्ञाना- देव बाधादसङ्गतिरिति ध्येयम् । शङ्का स्यादिति । प्रत्यक्षे बाधक- शङ्का स्यादित्यर्थ: । किञ्च बाधकं बाधितं वा शङ्कयेत अबाधितं वा, नान्त्य इत्याह – बाधेऽपीति । बाघपदानि बाधकार्थकानि, प्रत्यक्षे यद्बाधकमाशङ्कयं तत्रापि बाधकशङ्कासम्भवेन अबाधितबाधक- रूपायाः शङ्काकोटे: प्रसिद्धिः ज्ञानमपि न स्यादित्यर्थ: । आद्ये त्वाह—बाधितेति । बाधित बाधकस्य तत्त्वज्ञानत्वाभावेन अबाधक- त्वात् तच्छङ्कायामपि बाधकाबाध्यत्वरूपं सत्त्वं प्रत्यक्षविषये ज्ञातुं - 1 यथाश्रुते चाबाध्यशुक्तित्वादिना ज्ञाते तेनापि. 24*
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९१
दिखावट