पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

372 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम त्वात् । भाविबाधेऽपि बाधशङ्कापातेन स्वक्रियाव्याघातश्च स्यात् । शङ्काप्रत्यक्षेऽपि शङ्कायां शङ्कापि न सिद्धचेत् । एवं सर्वत्र शङ्का- प्रसरात् सर्वविष्लवापत्तिरिति चेत् मैवं मंस्थाः । यतः समत्वेन प्रमाणान्तर उपस्थित एव निश्चितेऽपि सच्चादौ शङ्का भवतीति ब्रूमः, न तु निश्चितमात्रे शङ्का भवतीति । तथाच यदुक्तं बौद्धं प्रति भट्टवार्तिके - दुष्टज्ञानगृहीतार्थप्रतिषेधोऽपि युज्यते । गृहीतमात्रबाधे तु स्वपक्षोपि न सिद्धयति || इति तदपि न विरुद्धयते; गृहीतमात्रबाधस्य तच्छकायाश्चा- नुक्तेः । ननु सत्त्वादिप्रत्यक्षे क्लृप्तदूरादिदोषाभावनिश्चये कथं शङ्कोदयः ? न च क्लृप्तानामभावनिश्चयेऽपि अक्लप्तस्य शक्यत इत्यर्थः । भाविबाधे ब्रह्मतत्त्वज्ञाने । स्वक्रियेति । वेदान्तश्रवणादिप्रवृत्तीत्यर्थः । शङ्काप्रत्यक्षे बाघकविषयकशङ्कायाः प्रत्यक्ष | शङ्कायां अप्रामाण्यशङ्कायाम् । शङ्कापि बाधकस्य शङ्कापि । सच्चादौ प्रत्यक्षविषयगते सत्त्वादौ । दुष्टज्ञानेति । शुक्तिरूप्यादे रागन्तुकदोषयुक्तधीविषयत्ववत् दृश्यमात्रस्य अविद्यारूपदोषयुक्तधीवि- षयत्वात् प्रतिषेधो बाधो युज्यते । धीविषयत्वस्य दोषयुक्तत्वं च दोषप्रयक्तनिष्ठत्वम् । तेन ब्रह्मधीविषयत्वस्यापि कस्यापि कथंचिद्दोष- युक्तत्वेऽपि न क्षतिः । दोषप्रयुक्तस्यैव अविद्याप्रयुक्तत्वेन बाध्यता योग्यत्वमिति भावः । गृहीतमात्र बाध्यमिति माध्यमिकमते तु स्वपक्षोऽपि न सिद्ध्यति स्फुरणस्वरूपम्य बाधानुपलम्भेन अविद्या- प्रयुक्तत्वाकल्पनात् जन्यधीविषय रूपगृहतिमात्रस्य बाधासम्भवादिति · भावः । यद्यपि प्रत्यक्षसमत्वेन श्रुत्यादित्रातमुपस्थितं, तथापि प्रत्यक्ष- विषयसत्त्वादौ न बाधकशङ्का घटत इति शङ्कते- ननु सवादीति ।