दितियोऽध्यायः
मात्रावृत्ताध्यायः
मात्रावृत्ताध्यायो द्वितीयः प्रारभ्यते | माव्रावृततानुपूर्वकमित्युक्तत्वात् ।
लक्ष्मैतत्सप्त गणा गोपेता % भवति नेह विषमे जः | षष्ठोऽयं ” च नलघु वा प्रथमेऽ्ध नियतमार्यायाः ॥ १ षष्ठे” द्वितीयलात्परके न्ते मुखलाच्च सयतिपदनियमः । चरमेऽर्धं पंचमके तस्मादिह भवति षष्टो लः ॥ २
आर्याया एतल्लक्ष्म लक्षणम् । सस चतुष्कला गणा गुरुणा उपेता युक्ता भवन्ति । सामान्येनाभिधाय विशेषमाह । भवति नेह विषमे जः इति । इह आर्यालक्षणे विषमे स्थाने प्रथमतृतीयादौ जो जगणौ न भवति । षष्ठश्चायं जगणो भवति । नलघु वा । नगणयुक्तो लघु वा भवति । नियतं निश्वितमार्यायाः । प्रथमेऽर्ध आदे दले इति । चरमेऽर्थे द्वितीयेऽ्ध षष्ठो लघुरेवेति नियमः । एवमुभयोरप्यर्धयोर्लक्षणमभिधाय पदनियममाह । षष्ठे द्वितीयलादिति । षष्ठे गणे सर्वलघौ द्वितीयाल्लघ्वक्षरादारभ्य पद भवति । सप्तमश्चत्सर्वलघुगणो भवति तदा प्रथमाक्षरादारभ्य पदं चरमेऽर्थे पंचमके द्वितीयेऽर्थे पंचमे सर्वलघौ गणे तस्मात्पूर्वोक्तात् । प्रथमाक्षराल्लघ्वक्षरादारभ्य पदनियमो भवति । इति । अ्रार्धग्रहणात्पादव्यवस्था नास्तीति एतच्च प्रथमाध्याय एव पदादाविति सूत्रे प्रपचितमस्ति ।
क्रमेणोदाहरणं" यथा |
वंदारुदेववृन्दैरहमहमिकया सदैव या वद्या |
स्वर्गापवर्गदात्री तामार्यां संततं नौमि ॥
इत्युदाहरणं यथा ।
यस्यांगनामुवेद्या" कोकिलनादश्च मलयगिरिपवनः ।
एकैकमस्त्रकृत्यं करोति स जयति मनोजन्मा ॥ १-२
५ पाठे गोपिता ।
५ पाठे षष्टोऽयं ।
"पाठे षष्टे |
" पाठे क्रमेणोटाहरणो ।
” पाठे अतीव अस्पष्टम् ।