पृष्ठम्:SukavihRdayAnandinI.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिष्वंशकेषु पादो दलयोरायेषु दृश्यते यस्याः । पथ्येति नाम तस्याश्छन्दोविद्धिः समाख्यातम्‌ ॥ 3

यस्या आर्याया आदेषु“ त्रिषु गणेषु पादौ विरामो भवति । सा पथ्या नाम । यथा । उज्ज्ितनेपथ्यालकमुज्ज्िततिलकांजनं यदेणाक्ष्याः । तस्याः स्मरामि विरहप्रारम्भे वदनमपि रम्यम्‌ ॥ 3

संलंघ्य गणत्रयमादिमं सकलयोर्हयोर्भवति पादः । यस्यास्तं पिंगलनागो विपुलामिति समाख्याति ॥ ४

यस्या आर्याया आद्यगणत्रयमभिलंघ्य दयोरप्यर्धयोः पादो विरामो यतिभभवति । सा विपुला नाम यथा ।

मम खलु न याति नयनयुगमचलनिर्मेषपिश्यतस्तृतिम्‌ । वरस्तमृगशिशुदृशस्तन्वग्या जघनस्थली विपुलाम्‌ ॥

सामान्येन विधानमेतदाद्यतोभयभ्रदपूर्वकत्वात्तिधा भवति । तत्रादिविपुला यथा ।

प्रमदानां जयति कटाक्षोऽयं निशि स्फुरत्स्मरशराभः । हदयस्थितानुरागघ्रकटनपटतां दधात्स्वैर ॥

अन्त्यविपुला यथा ।

प्रीतिं कस्य न जनयति प्रकुर्वती केशबंधनं नारी । द्शितभ्रुजमूलालंकारसुभूतारद्रनखपंक्तिः ॥ उभयविपुलोदाहरणं पूर्वमेवोदाहतमिति । ४

उभयार्धयोर्जकारौˆ द्वितीयतुर्यौ गमध्यगौ यस्याः । चपलेति नाम तस्याः प्रकीर्तिता नागराजेन ॥ ५

यस्या आर्याया उभयोरर्धयोदितीयतुर्यौ द्वितीयचतुर्थौ गुर्वोर्मध्यगौ गमध्यगौ गमध्यगाविति । वदता सूत्रकृता गणनियम उक्तः । तथा हि प्रथमौ गणोऽन्तगुरुरेव


^ पाठे त्रिष्वंसकेषु । “4 पाठे आदये ।

  • पाठे उभ्रयो्धयो जकारौ ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/१५&oldid=371568" इत्यस्माद् प्रतिप्राप्तम्