मध्यमकशास्त्रम्/कर्मफलपरीक्षा सप्तदशमं प्रकरणम्
← मध्यमकशास्त्रम्/बन्धमोक्षपरीक्षा षोडशं प्रकरणम् | मध्यमकशास्त्रम् कर्मफलपरीक्षा सप्तदशमं प्रकरणम् नागार्जुन |
मध्यमकशास्त्रम्/आत्मपरीक्षा अष्टादशमं प्रकरणम् → |
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धर्मस्तद्बीजं फलस्य प्रेत्य चेह च ॥ १७.१ ॥
चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा ।
तस्यानेकविधो भेदः कर्मणः परिकीर्तितः ॥ १७.२ ॥
तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम् ।
चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम् ॥ १७.३ ॥
वाग्विष्पन्दोऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः ।
अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा ॥ १७.४ ॥
परिभोगान्वयं पुण्यमपुण्यं च तथाविधम् ।
चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः ॥ १७.५ ॥
तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात् ।
निरुद्धं चेन्निरूद्धं सत्किं फलं जनयिष्यति ॥ १७.६ ॥
योऽङ्कुरप्रभृतिर्बीजात्संतानोऽभिप्रवर्तते ।
ततः फलमृते बीजात्स च नाभिप्रवर्तते ॥ १७.७ ॥
बीजाच्च यस्मात्संतानः संतानाच्च फलोद्भवः ।
बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १७.८ ॥
यस्तस्माच्चित्तसंतानश्चेतसोऽभिप्रवर्तते ।
ततः फलमृते चित्तात्स च नाभिप्रवर्तते ॥ १७.९ ॥
चित्ताच्च यस्मात्संतानः संतानाच्च फलोद्भवः ।
कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १७.१० ॥
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश ।
फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च ॥ १७.११ ॥
बहवश्च महान्तश्च दोषाः स्युरपि कल्पना ।
यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते ॥ १७.१२ ॥
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते ।
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम् ॥ १७.१३ ॥
पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च ।
चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः ॥ १७.१४ ॥
प्रहाणतो न प्रहेयो भावनाहेय एव वा ।
तस्मादविप्रणाशेन जायते कर्मणां फलम् ॥ १७.१५ ॥
प्रहाणतः प्रहेयः स्यात्कर्मणः संक्रमेण वा ।
यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः ॥ १७.१६ ॥
सर्वेषां विषभागानां सभागानां च कर्मणाम् ।
प्रतिसंधौ सधातूनामेक उत्पद्यते तु सः ॥ १७.१७ ॥
कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः ।
द्विप्रकारस्य सर्वस्य विपक्केऽपि च तिष्ठति ॥ १७.१८ ॥
फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते ।
अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् ॥ १७.१९ ॥
शून्यता च न चोच्छेदः संसारश्च न शाश्वतम् ।
कर्मणोऽविप्रणाशश्च धर्मो बुद्धेन देशितः ॥ १७.२० ॥
कर्म नोत्पद्यते कस्मात्निःस्वभावं यतस्ततः ।
यस्माच्च तदनुत्पन्नं न तस्माद्विप्रणश्यति ॥ १७.२१ ॥
कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम् ।
अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम् ॥ १७.२२ ॥
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि ।
अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते ॥ १७.२३ ॥
व्यवहारा विरुध्यन्ते सर्व एव न संशयः ।
पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते ॥ १७.२४ ॥
तद्विपक्वविपाकं च पुनरेव विपक्ष्यति ।
कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि ॥ १७.२५ ॥
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः ।
न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम् ॥ १७.२६ ॥
कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः ।
कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा ॥ १७.२७ ॥
अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः ।
स भोक्ता स च न कर्तुरन्यो न च स एव सः ॥ १७.२८ ॥
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् ।
अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः ॥ १७.२९ ॥
कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम् ।
असत्यथ फले भोक्ता कुत एव भविष्यति ॥ १७.३० ॥
यथा निर्मितकं शास्ता निर्मिमीतर्द्धिसंपदा ।
निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः ॥ १७.३१ ॥
तथा निर्मितकाकारः कर्ता कर्म च तत्कृतम् ।
तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा ॥ १७.३२ ॥
क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ १७.३३ ॥