सामग्री पर जाएँ

देवीभागवतपुराणम्/माहात्म्यम्/अध्यायः २

विकिस्रोतः तः

अथ द्वितीयोऽध्यायः
ऋषय ऊचुः।
वसुदेवो महाभागः कथं पुत्रमवाप्तवान् ।
प्रसेनः कुत्र कृष्णेन भ्रमताऽन्वेषितः कथम् ॥१॥
विधिना केन कस्माच्च देवीभागवतं श्रुतम् ।
वसुदेवेन सुमते वद सूत कथामिमाम् ॥२॥
सूत उवाच।
सत्राजिद्भोजवंशीयो द्वारवत्यां सुखं वसन् ।
सूर्यस्याराधने युक्तो भक्तश्च परमः सखा ॥३॥
अथ कालेन कियता प्रसन्नः सविताऽभवत् ।
स्वलोकं दर्शयामास तद्भक्त्या प्रणयेन च ॥४॥
तस्मै प्रतीतस्य भगवान्स्यमंतकमणिं ददौ ।
स तं बिभ्रन्मणिं कण्ठे द्वारकामाजगाम ह ॥५॥
दृष्ट्वा तं तेजसा भ्रान्ता मत्वादित्यं पुरौकसः ।
कृष्णमूचूः समभ्येत्य सुधर्मायामवस्थितम् ॥६॥
एष आयाति सविता दिदृक्षुस्त्वां जगत्पते ।
श्रुत्वा कृष्णस्तु तद्वाचं प्रहस्योवाच संसदि ॥७॥
सविता नैष भो बालाः सत्राजिन्मणिना ज्वलन् ।
स्यमन्तकेन चायाति भास्वद्दत्तेन भास्वता ॥ ८ ॥
अथ विप्रान्समाहूय स्वस्तिवाचनपूर्वकम् ।
प्रावेशयत्समभ्यर्च्य सत्राजित्स्वगृहे मणिम् ॥९॥
न तत्र मारी दुर्भिक्षं नोपसर्गभयं क्वचित् ।
यत्रास्ते स मणिर्नित्यमष्टभार सुवर्णदः ॥ १० ॥
अथ सत्राजितो भ्राता प्रसेनो नाम कर्हिचित् ।
कण्ठे बद्ध्वा मणिं सद्यो हयमारुह्य सैंधवम्॥११॥
मृगयार्थं वनं यातस्तमद्राक्षीन्मृगाधिपः ।
प्रसेनं सहयं हत्वा सिंहो जग्राह तं मणिम् ॥१२॥
जाम्बवानृक्षराजोऽथ दृष्ट्वा मणिधरं हरिम् ।
हत्वा च तं बिलद्वारि मणिं जग्राह वीर्यवान् ॥ १३ ॥
स तं मणिं स्वपुत्राय क्रीडनार्थमदात्प्रभुः ।
अथ चिक्रीड बालोऽपि मणिं संप्राप्य भास्वरम् ॥ १४ ॥
प्रसेनेऽनागते चाथ सत्राजित्पर्यतप्यत ।
न जाने केन निहतः प्रसेनो मणिमिच्छता ॥ १५ ॥
अथ लोकमुखोद्गीर्णा किंवदन्ती पुरेऽभवत् ।
कृष्णेन निहतो नूनं प्रसेनो मणिलिप्सुना ॥ १६ ।
स तं शुश्राव कृष्णोपि दुर्यशो लिप्तमात्मनि ।
मार्ष्टुं तत्तस्य पदवीं पुरौकोभिः सहागमत् ॥ १७॥
गत्वा स विपिनेऽपश्यत्प्रसेनं हरिणा हतम् ।
ययौ मृगेन्द्रमन्विष्यन्नसृग्बिंद्वंकिताध्वना ॥ १८॥
अथ कृष्णो हतं सिंहं बिलद्वारि विलोक्य च ।
उवाच भगवान्वाचं कृपया पुरवासिनः ॥ १९॥
तिष्ठध्वं यूयमत्रैव यावदागमनं मम ।
प्रविशामि बिलं त्वेतन्मणिहारकलब्धये ॥२०॥
तथेत्युक्त्वा तु ते तस्थुस्तत्रैव द्वारकौकसः ।
जगामांतर्बिलं कृष्णो यत्र जाम्बवतो गृहम् ॥२१॥
ऋक्षराजसुतं दृष्ट्वा कृष्णो मणिधरं तदा ।
हर्तुमैच्छन्मणिं तावद्धात्री चुक्रोश भीतवत् ॥२२॥
श्रुत्वा धात्रीरवं सद्यः समागत्यर्थक्षराट् तदा ।
युयुधे स्वामिना साकमविश्राममहर्निशम् ॥२३॥
एवं त्रिनवरात्रं तु महद्युद्धमभूत्तयोः ।
कृष्णागमप्रतीक्षास्ते तस्थुर्द्वारि पुरौकसः ॥२४॥
द्वादशाहं ततो भीत्या प्रतिजग्मुर्निजालयम् ।
तत्र ते कथयामासुर्वृत्तांतं सर्वमादितः ॥२५।
सत्राजितं शपंतस्ते सर्वे शोकाकुला भृशम् ।
वासुदेवो महाभागः श्रुत्वा पुत्रस्य तां कथाम् ॥२६।
मुमोह सपरीवारस्तदा परमया शुचा ।
चिन्तयामास बहुधा कथं श्रेयो भवेन्मम ॥२७।
अथाजगाम भगवान्देवर्षिर्ब्रह्मलोकतः ।
उत्थाय तं प्रणम्यासौ वसुदेवोऽभ्यपूजयत् ॥२८।
नारदोऽनामयं पृष्ट्वा वासुदेवं महामतिम् ।
प्रपच्छ च यदुश्रेष्ठं किं चितयसि तद्वद ॥ २९॥
वसुदेव उवाच।
पुत्रो मेऽतिप्रियः कृष्णः प्रसेनान्वेषणाय तु ।
पौरैः साकं वनं गत्वा निहतं तं तदैक्षत ॥ ३० ॥
प्रसेनघातकं दृष्ट्वा बिलद्वारे मृतं हरिम् ।
द्वारि पौरानधिष्ठाय बिलांतर्गतवान्स्वयम् ॥३१।
बहवो दिवसा याता नायात्यद्यापि मे सुतः ।
अतः शोचामि तद् ब्रूहि येन लप्स्ये सुतं मुने ॥ ३२ ॥
नारद उवाच।
पुत्रप्राप्त्यै यदुश्रेष्ठ देवीमाराधयांबिकाम् ।
तस्या आराधनेनैव सद्यः श्रेयो ह्यवाप्स्यसि ॥३३॥
वसुदेव उवाच।
भगवन्का हि सा देवी किंप्रभावा महेश्वरी ।
कथमाराधनं तस्या देवर्षे कृपया वद ॥३४॥
नारद उवाच।
वसुदेव महाभाग शृणु संक्षेपतो मम ।
देव्या माहात्म्यमतुलं को वक्तुं विस्तरात्क्षमः ॥ ३५ ॥
या सा भगवती नित्या सच्चिदानन्दरूपिणी ।
परात्परतरा देवी यया व्याप्तमिदं जगत् ॥३६॥
यदाराधनतो ब्रह्मा सृजतीदं चराचरम् ।
यां च स्तुत्वा विनिर्मुक्तो मधुकैटभजाद्भयात् ॥ ३७॥
विष्णुर्यत्कृपया विश्वं बिभर्ति भगवानिदम् ।
रुद्रः संहरते यस्याः कृपापांगनिरीक्षणात् ॥ ३८॥
संतारबंधहेतुर्या सैव मुक्तिप्रदायिनी ।
सा विद्या परमा देवी सैव सर्वेश्वरेश्वरी ॥३९॥
नवरात्रविधानेन सम्पूज्य जगदंबिकाम् ।
नवाहोभिः पुराणं च देव्या भागवतं शृणु ॥४०।
यस्य श्रवणमात्रेण सद्यः पुत्रमवाप्स्यसि ।
भुक्तिर्मुक्तिर्न दूरस्था पठतां शृण्वतां नृणाम् ॥४१ ॥
इत्युक्तो नारदेनासौ वसुदेवः प्रणम्य तम् ।
उवाच परया प्रीत्या नारदं मुनिसत्तमम् ॥४२॥
वसुदेव उवाच।
भगवंस्तव वाक्येन संस्मृतं वृत्तमात्मनः ।
श्रूयतां तच्च वक्ष्यामि देवीमाहात्म्यसंभवम् ॥४३॥
पुरा नभोगिरा कंसो देवक्यष्टमगर्भतः ।
ज्ञात्वात्ममृत्युं पापो मां सभार्यां न्यरुणद्भिया ४४ ॥
कारागारेऽहमवसं देवक्या सह भार्यया ।
जातं जातं समवधीत्पुत्रं कंसोऽपि पापकृत् ॥ ४५॥
षट् पुत्रा निहतास्तेन तदा शोकाकुला भृशम् ।
अतप्यद्देवकी देवी नक्तंदिवमनिन्दिता ॥४६ ॥
तदाऽहं गर्गमाहूय मुनिं नत्वाऽभिपूज्य च ।
निवेद्य देवकीदुःखमवोचं पुत्रकाम्यया ॥ ४७ ।
भगवन्करुणासिन्धो यादवानां गुरुर्भवान् ।
आयुष्मत्पुत्रसंप्राप्तिसाधनं वद मे मुने ॥ ४८ ॥
ततो गर्गः प्रसन्नात्मा मामुवाच दयानिधिः ।
वसुदेव महाभाग शृणु तत्साधनं परम् ॥ ४९ ॥
या सा भगवती दुर्गा भक्तदुर्गतिहारिणी ।
तामाराधय कल्याणीं सद्यः श्रेयो ह्यवाप्स्यसि ५० ॥
यदाराधनतः सर्वे सर्वान्कामानवाप्नुयुः ।
न किचिद्दुर्लभं लोके दुर्गार्चनवतां नृणाम् ॥५१॥
इत्युक्तोऽहं मुदा युक्तः सभार्यो मुनिपुङ्गवम् ।
प्रणम्य परया भक्त्या प्रावोचं विहितांजलिः ॥ ५२ ॥
वसुदेव उवाच।
यद्यस्ति भगवन्प्रीतिर्मयि ते करुणानिधे ।
तदा पुरा मदर्थे त्वं समाराधय चण्डिकाम् ॥५३ ॥
निरुद्धः कंसगेहेऽहं न किंचित्कर्तुमुत्सहे ।
अतस्त्वमेव दुःखाब्धेर्मामुद्धर महामते ॥ ५४ ॥
इत्युक्तस्तु मया प्रीतः प्रोवाच मुनिपुङ्गवः ।
वसुदेव तव प्रीत्या करिष्यामि हितं तव ॥ ५५॥
अथ गर्गमुनिः प्रीत्या मया संप्रार्थितोऽगमत् ।
आरिराधयिषुर्दुर्गां विंध्याद्रिं ब्राह्मणैः सह ॥ ५६ ॥
तत्र गत्वा जगद्धात्रीं भक्ताभीष्टप्रदायिनीम् ।
आराधयामास मुनिर्जपपाठपरायणः ॥५७॥
यतः समाप्ते नियमे वागुवाचाशरीरिणी ।
प्रसन्नाऽहं मुने कार्यसिद्धिस्तव भविष्यति ॥५८॥
भूभारहरणार्थाय मया संप्रेषितो हरिः ।
वसुदेवस्य देवक्यां स्वांशेनावतरिष्यति ॥ ५९ ॥
कंसभीत्या तमादाय बालमानकदुंदुभिः ।
प्रापयिष्यति सद्यस्तु गोकुले नन्दवेश्मनि ॥ ६० ।
यशोदातनयां नीत्वा स्वगृहे कंसभूभुजे ।
दास्यत्यथ च तां हंतुं कंस आक्षेप्स्यति क्षितौ ६१ ॥
सा तद्धस्ताद्विनिर्गत्य सद्यो दिव्यवपुर्द्धरा ।
मदंशभूता विंध्याद्रौ करिष्यति जगद्धितम् ॥६२॥
इति तद्वचनं श्रुत्वा प्रणम्य जगदम्बिकाम् ।
गर्गो मुनिः प्रसन्नात्मा मथुरामगमत्पुरीम् ॥६३॥
वरदानं महादेव्या गर्गाचार्यसुखावहम् ।
श्रुत्वा सभार्यः संप्रीतः परं मुदमथागमत् ॥६४॥
तदारभ्य परं जाने देवीमाहात्म्यमुत्तमम् ।
अधुनापि हि देवर्षे श्रुतं तव मुखांबुजात् ॥ ६५ ॥
अतो भागवतं देव्यास्त्वमेव श्रावय प्रभो ।
मद्भाग्यादेव देवर्षे संप्राप्तोऽसि दयानिधे ॥ ६६ ॥
वसुदेववचः श्रुत्वा नारदः प्रीतमानसः ।
सुदिने शुभनक्षत्रे कथारंभमथाकरोत् ॥६७॥
कथाविघ्नविघातार्थं द्विजा जेपुर्नवाक्षरम् ।
मार्कण्डेयपुराणोक्तं पेठुर्देव्याः स्तवं तथा ॥ ६८ ॥
प्रथमस्कंधमारभ्य श्रीनारदमुखोद्गतम् ।
शुश्राव वसुदेवश्व भक्त्या भागवतामृतम् ॥६९॥
नवमेऽह्नि कथापूर्तौ पुस्तकं वाचकं तथा ।
प्रसन्न: पूजयामास वसुदेवो महामनाः ॥ ७० ॥
अथ तत्र बिलस्यांतः कृष्णजांबवतोर्मृधे ।
कृष्णमुष्टिविनिष्पातश्लथाङ्गो जांबवानभूत् ॥७१ ॥
अथागतस्मृतिः सो हि भगवंतं प्रणम्य च ।
उवाच परया भक्त्या स्वापराधं क्षमापयन् ॥ ७२ ।
ज्ञातोऽसि रघुवर्यस्त्वं यद्रोषात्सरितां पतिः ।
क्षोभं जगाम लंकां च रावणः सानुगो हतः ॥ ७३ ॥
स एवासि भवान्कृष्ण मद्दौरात्म्यं क्षमस्व भोः ।
ब्रूहि यत्करणीयं मे भृत्योऽहं तव सर्वथा ॥७४ ॥
श्रुत्वा जांबवतो वाचमब्रवीज्जगदीश्वरः ।
मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् ॥ ७५ ॥
द्विजा भार्यया सहितं कृष्णं देवर्षिर्नारदश्वाथ
ऋक्षराजस्ततः प्रीत्या कन्यां जाम्बवतीं निजाम्।
ददौ कृष्णाय संपूज्य स्यमंतकमणिं तथा ।। ७६ ।।
स तां पत्नीं समादाय मणिं कंठे तथा दधत् ।
अभिमंत्र्यर्क्षराजञ्च प्रतस्थे द्वारकां प्रति ॥ ७७ ॥
कथासमाप्तिदिवसे वसुदेव उदारधीः ।
ब्राह्मणान्भोजयामास दक्षिणाभिरतोषयत् ॥ ७८॥
आशीर्वादं प्रयुञ्जाना द्विजा यत्समये हरिः ।
आजगाम क्षणे तस्मिन्पत्न्या सह मणिं दधत् ॥ ७९॥
भार्यया सहितं कृष्णं वसुदेवपुरोगमाः ।
दृष्ट्वा हर्षाश्रुपूर्णाक्षाः समवापुः परां मुदम् ॥८०॥
देवर्षिर्नारदश्चाथ कृष्णागमनहर्षितः ।
आमंत्र्य वसुदेवं च कृष्णो ब्रह्मसभां ययौ ॥ ८१ ॥
हरिचरितमिदं यत्कीर्तितं दुर्यशोघ्नं पठति विमलभक्त्या शुद्धचित्तः शृणोति ।
स भवति सुखपूर्णः सर्वदा सिद्धिकामो जगति च वपुषोऽन्ते मुक्तिमार्गं लभेच्च ॥ ८२ ॥
इति श्रीस्कन्दपुराणे मानसखण्डे देवीभागवतमाहात्म्ये द्वितीयोऽध्यायः ॥ २ ॥