देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ३३
अथ त्रयस्त्रिंशोऽध्यायः
राजोवाच।
मुने वैश्योऽयमधुना वने मे मित्रतां गतः ।
पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम संगमम् ॥१॥
"कुटुम्बविरहेणासौ दुःखितोऽतीव दुर्मनाः ।
न शान्तिमुपयात्येष तथैव मम साम्प्रतम् ॥
गतराज्यस्य दुःखेन शोकार्तोऽस्मि महामते” ॥१॥
निष्कारणं च मे चिंता हृदयान्न निवर्तते ।
हया मे दुर्बलाः स्युः किं गजाः शत्रुवशं गताः ॥ २॥
भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना ।
कोशक्षयं करिष्यंति रिपवोऽतिबलात्क्षणात् ॥३॥
इत्येवं चिंतयानस्य च मे निद्रा तनौ सुखम् ।
जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि ॥ ४॥
जानतोऽपि मनो भ्रांतं न स्थिरं भवति प्रभो ।
कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ॥
न पुत्रा न च मित्राणि येषां दुःखं दुनोति माम् ।
भ्रमोऽयमिति जानामि तथापि मम मानसः ॥ ६ ॥
मोहो नैवापसरति किं तत्कारणमद्भुतम् ।
स्वामिंस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत् ॥७॥
कारणं ब्रूहि मोहस्य ममास्य च दयानिधे ।
व्यास उवाच।
इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः ॥८॥
तमुवाच परं ज्ञानं शोकमोहविनाशनम् ।
ऋषिरुवाच।
शृणु राजन्प्रवक्ष्यामि कारणं बन्धमोक्षयोः ॥ ९ ॥
महामायेति विख्याता सर्वेषां प्राणिनामिह ।
ब्रह्मा विष्णुस्तथेशानस्तुराषाड्वरुणोऽनिलः ॥ १० ॥
सर्वे देवा मनुष्याश्च गन्धर्वोरगराक्षसाः ।
वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षिणः ॥ ११॥
मायाधीनाश्च ते सर्वे भाजनं बंधमोक्षयोः ।
तया सृष्टमिदं सर्वं जगत्स्थावरजंगमम् ॥१२॥
तद्वशे वर्तते नूनं मोहजालेन यंत्रितम् ।
त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाऽऽविलः ॥ १३ ॥
ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा ।
ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः ॥१४॥
तेऽपि रागवशाल्लोके भ्रमति परिमोहिताः ।
पुरा सत्ययुगे राजन्विष्णुर्नारायणः स्वयम् ॥ १५ ॥
श्वेतद्वीपं समासाद्य चकार विपुलं तपः ।
वर्षाणामयुतं यावद् ब्रह्मविद्याप्रसक्तये ॥ १६॥
अनश्वरसुखायासी चिंतयानस्ततः परम् ।
एकस्मिन्निर्जने देशे ब्रह्माऽपि परमाद्भुते ॥ १७ ॥
स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये ।
कदाचिद्वासुदेवोऽसौ स्थलांतरमतिर्हरिः ॥१८॥
तस्माद्देशात्समुत्थाय जगामान्यद्दिदृक्षया ।
चतुर्मुखोऽपि राजेन्द्र तथैव निःसृतः स्थलात् ॥ १९॥
मिलितौ मार्गमध्ये तु चतुर्मुखचतुर्भुजौ ।
अन्योन्यं पृष्टवंतौ तौ कस्त्वं कस्त्वमिति स्म ह ॥ २० ॥
ब्रह्मा प्रोवाच तं देवं कर्ताऽहं जगतः किल ।
विष्णुस्तमाह भो मूर्ख जगत्कर्ताऽहमच्युतः ॥२१।
त्वं कियान्बलहीनोऽसि रजोगुणसमाश्रितः ।
सत्त्वाश्रितं हि मां विद्धि वासुदेवं सनातनम् ॥२२॥
मया त्वं रक्षितोऽद्यैव कृत्वा युद्धं सुदारुणम् ।
शरणं मे समायातो दानवाभ्यां प्रपीडितः ॥ २३ ॥
मया तौ निहतौ कामं दानवौ मधुकैटभौ ।
कथं गर्वायसे मंद मोहोऽयं त्यज सांप्रतम् ॥२४॥
न मत्तोऽप्यधिकः कश्चित्संसारेऽस्मिन्प्रसारिते ।
ऋषिरुवाच।
एवं प्रवदमानौ तौ ब्रह्मविष्णू परस्परम् ॥२५॥
स्फुरदोष्ठौ वेपमानौ लोहिताक्षौ बभूवतुः ।
प्रादुर्बभूव सहसा तयोर्विवदमानयोः ॥२६॥
मध्ये लिंगं सुधाश्वेतं विपुलं दीर्घमद्भुतम् ।
आकाशे तरसा तत्र वागुवाचाशरीरिणी ॥२७॥
तौ संबोध्य महाभागौ विवदन्तौ परस्परम् ।
ब्रह्मन्विष्णो विवादं मा कुरुतां वां परस्परम् ॥२८॥
लिंगस्यास्य परं पारमधस्तादुपरि ध्रुवम् ।
यो याति युवयोर्मध्ये स श्रेष्ठो वां सदैव हि ॥२९॥
एक: प्रयातु पातालमाकाशमपरोऽधुना ।
प्रमाणं मे वचः कार्यं त्यक्त्वा वादं निरर्थकम् ॥३०॥
मध्यस्थः सर्वदा कार्यो विवादेऽस्मिन्द्वयोरिह ।
ऋषिरुवाच।
तच्छ्रुत्वा वचनं दिव्यं सज्जीभूतौ कृतोद्यमौ ॥ ३१ ॥
जग्मतुर्मातुमग्रस्थं लिङ्गमद्भुतदर्शनम् ।
पातालमगमद्विष्णुर्ब्रह्माऽप्याकाशमेव च ॥३२॥
परिमातुं महालिङ्गं स्वमहत्त्वविवृद्धये ।
विष्णुर्गत्वा कियद्देशं श्रान्तः सर्वात्मना यतः ॥ ३३ ॥
न प्रापांतं स लिंगस्य परिवृत्य ययौ स्थलम् ।
ब्रह्माऽगच्छत्ततश्चोर्ध्वं पतितं केतकीदलम् ॥३४॥
शिवस्य मस्तकात्प्राप्य परावृत्तो मुदावृतः ।
आगत्य तरसा ब्रह्मा विष्णवे केतकीदलम ॥ ३५॥
दर्शयित्वा च वितथमुवाच मदमोहितः ।
लिङ्गस्य मस्तकादेतद्गृहीतं केतकीदलम् ॥३६॥
अभिज्ञानाय चानीतं तव चित्तप्रशान्तये ।
श्रुत्वा तद्ब्रह्मणो वाक्यं दृष्ट्वा च केतकीदलम् ॥३७॥
हरिस्तं प्रत्युवाचेदं साक्षी क: कथयाधुना ।
यथार्थवादी मेधावी सदाचारः शुचिः समः ॥३८॥
साक्षी भवति सर्वत्र विवादे समुपस्थिते ।
ब्रह्मोवाच।
दूरदेशात्समायाति साक्षी कः समयेऽधुना ॥३९॥
यत्सत्यं तद्वचः सेयं केतकी कथयिष्यति ।
इत्युक्त्वा प्रेरिता तत्र ब्रह्मणा केतकी स्फुटम् ॥४० ॥
वचनं प्राह तरसा शार्ङ्गिणं प्रत्यबोधयत् ।
शिवमूर्ध्नि स्थितां ब्रह्मा गृहीत्वा मां समागतः ॥ ४१ ॥
सन्देहोऽत्र न कर्तव्यस्त्वया विष्णो कदाचन ।
मम वाक्यं प्रमाणं हि ब्रह्मा पारङ्गतोऽस्य ह ॥ ४२ ॥
गृहीत्वा मां समायातः शिवभक्तैः समर्पिताम् ।
केतक्या वचनं श्रुत्वा हरिराह स्मयनिव ॥४३॥
महादेवः प्रमाणं मे यद्यसौ वचनं वदेत् ।
ऋषिरुवाच।
तदाकर्ण्य हरेर्वाक्यं महादेव: सनातनः ॥ ४४ ॥
कुपितः केतकीं प्राह मिथ्यावादिनि मा वद ।
गच्छतो मध्यतः प्राप्ता पतिता मस्तकान्मम ॥ ४५ ॥
मिथ्याभिभाषिणी त्यक्ता मया त्वं सर्वदेव हि ।
ब्रह्मा लज्जापरो भूत्वा ननाम मधुसूदनम् ॥४६ ॥
शिवेन केतकी त्यक्ता तद्दिनात्कुसुमेषु वै ।
एवं मायाबलं विद्धि ज्ञानिनामपि मोहदम् ॥४७ ।
अन्येषां प्राणिनां राजन्का वार्ता विभ्रमं प्रति ।
देवानां कार्यसिद्ध्यर्थं सर्वदेव रमापतिः ॥ ४८ ॥
दैत्यान्वञ्चयते चाशु त्यक्त्वा पापभयं हरिः ।
अवतारकरो देवो नानायोनिषु माधवः ॥ ४९ ॥
त्यक्त्वाऽऽनन्दसुखं दैत्यैर्युद्धं चैवाकरोद्विभुः ।
नूनं मायाबलं चैतन्माधवेऽपि जगद्गुरौ ॥५० ॥
सर्वज्ञे देवकार्यांशे का वार्ताऽन्यस्य भूपते ।
ज्ञानिनामपि चेतांसि परमा प्रकृतिः किल ॥ ५१ ॥
बलादाकृष्य मोहाय प्रयच्छति महीपते ।
यया व्याप्तमिदं सर्वं भगवत्या चराचरम् ॥५२॥
मोहदा ज्ञानदा सैव बन्धमोक्षप्रदा सदा ।
राजोवाच।
भगवन्ब्रूहि मे तस्याः स्वरूपं बलमुत्तमम् ॥५३ ॥
उत्पत्तिकारणं चापि स्थानं परमकं च यत् ।
ऋषिरुवाच।
न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन ॥ ५४ ॥
नित्यैव सा परा देवी कारणानां च कारणम् ।
वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप ॥ ५५ ॥
शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा ।
चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि ॥ ५६ ॥
आविर्भावतिरोभावौ देवानां कार्यसिद्धये ।
यदा स्तुवंति तां देवा मनुजाश्च विशांपते ॥५७॥
प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका ।
नानारूपधरा देवी नानाशक्तिसमन्विता ॥ ५८ ॥
आविर्भवति कार्यार्थं स्वेच्छया परमेश्वरी ।
दैवाधीना न सा देवी यथा सर्वे सुरा नृप ॥ ५९ ॥
न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी ।
अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत् ॥ ६० ॥
दृश्यस्य जननी सैव देवी सदसदात्मिका ।
पुरुषं रंजयत्येका कृत्वा ब्रह्माण्डनाटकम् ॥६१॥
रंजिते पुरुषे सर्वं संहरत्यतिरंहसा ।
तया निमित्तभूतास्ते ब्रह्मविष्णुमहेश्वराः ॥ ६२ ॥
कल्पिताः स्वस्वकार्येषु प्रेरिता लीलया त्वमी ।
स्वांशं तेषु समारोप्य कृतास्ते बलवत्तराः ॥ ६३॥
दत्ताश्व शक्तयस्तेभ्यो गीर्लक्ष्मीर्गिरिजा तथा ।
ते तां ध्यायंति देवेशाः पूजयंति परां मुदा ॥ ६४ ॥
ज्ञात्वा सर्वेश्वरीं शक्तिं सृष्टिस्थितिविनाशिनीम् ।
एतत्ते सर्वमाख्यातं देवीमाहात्म्यमुत्तमम् ॥
मम बुद्ध्यनुसारेण नान्तं जानामि भूपते ॥६५ ॥
इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे त्रयस्त्रिंशोऽध्यायः ॥ ३३॥