ततः तेन ब्रह्मदत्तेन तासां पाणौ, जामातृस्पृष्टमात्रे सति विकुब्जत्वादिगुणवत्यः शतं कन्या बभुः । [१]कन्याशतमिति शकार लोपः। इदमेव दिव्यवैभवब्रह्मदत्तजामात्रन्वेषणफलं कुशनाभस्य ॥ २३ ॥
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
बभूव परमप्रीतः, हर्षंं लेभे पुनः पुनः ॥ २४ ॥
स कुशनाभः तदा वायुना मुक्ताः कन्याः दृष्ट्वा परमप्रीतो बभूव ॥ २४ ॥
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः ।
सादरं प्रेषयामास सोपाध्यायगणं तदा ॥ २५ ॥
प्रेषयामासेति । काम्पिल्यां प्रतीति शेषः ॥ २५ ॥
सोमदाऽपि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् ।
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।
[२]स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः
सोमदाऽपि-ब्रह्मदत्तमाताऽपि । सदृशीं क्रियामिति । दारक्रियामित्यर्थः–दृष्ट्वेति शेषः । प्रतिनन्दनप्रकारः-स्पृष्ट्वा स्पृष्ट्वेत्यादि। सार (२७) मानः सर्गः ॥ २६ ॥
इति श्रीमद्रामायणमृतकतकटीकायां बालकाण्डे त्रयस्त्रिंशः सर्गः