6. द्वयक्षरकाण्डे नानालिङ्गाध्यायः । पेत्वं तप्ते भुवो भागे द्वे तु मेषे परः पुनः । पशौ गालितमुष्कै ऽमुं व्याचष्टे तदसद् विदुः ॥ ८१८ ॥ पेरुर्ना भास्करे शैले समुद्रे द्वे तु पक्षिणि । कलविकाह्वयेऽथ स्यात् प्रेम प्रेमा च न स्त्रियाम् ॥ ८१९ ॥ स्नेहे केलौ च दासे तु प्रेष्यो द्वे भेद्यवत् पुनः । प्रेषितव्येऽथ पोतो ना यानपात्रे द्वयोः पुनः ॥ ८२० ॥ शिशौ दशाब्दद्विरदे पुत्रथोरपरे विदुः । चतुष्पदां तु तरुणे केचिदन्ये प्रचक्षते ॥ ८२१ ॥ प्रोथोऽस्त्री हयघोणायां त्रिः प्रिये यूनि तु द्वयोः । प्रोष्ठः पुंस्कृषभे प्रोष्ठी शफर्यो स्त्र्यथ पौरवाक् ॥ ८२२ ॥ बलभद्रे श्वेतशालौ ना क्ली तु ध्यामकाङ्क्षये । भेषजे पुरवास्यादिपुरसम्बन्धिनि त्रिषु ॥ ८२३ ॥ पौषस्तु तैषमासे ना सामभेदे नपुंसकम् । पौषी तु पौर्णमास्यां स्त्री संयुक्ता पुष्यभेन या ॥ ८२४ ॥ पौंस्त्रं पुंसवने क्लीबं पुंसः सम्बन्धिनि त्रिषु । फलं फाले घने बीजे निप्पत्ती भोगलामयोः ॥ ८२५ ॥ सस्ये हेतुकृते चर्मसंज्ञशस्त्र निवारणे । शस्त्राणां च मुखेऽत्रोक्तस्थावराणां प्रसूनयोः ॥ ८२६ ॥ क्लीं पुंस्यप्यपरे ना तु करमर्देऽथ सा स्त्रियाम्। कार्पास्यां लवलीराजकोशातकयोः फलाथ सा ॥ ८२७ ।। कोशातक्यां फलिन्यां च ताम्रदिफलके तथा । फली स्यादजयस्त्वाह मत्स्यभेदेऽपि शब्दवित् ॥ ८२८ ॥ फल्गु तु त्रिप्वसारे स्त्री काकोदुम्बकाङ्क्षये । वृक्षभेदे त्रि तु फली फलयुक्ते स्त्रियां पुनः ॥ ८२९ ।। २. '३' ङ. पाठ:. ३. १. 'क्ते' ग. पाठ: 'क्लविं पुंस्यप' ग. पाठ:. 'प्रो' ग, घ, पाठ, ११३
पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/११९
दिखावट