तावेव रौद्रदारुणार्थौ उभयोः प्रकाश्येते-रोमेत्यादि । अग्नेरिव मरीच्यः-विस्फुलिङ्गाः निष्पेतुरिति योजनार्थः ॥ १८ ॥
प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ।
[१]विधूम इव कालाग्निर्यमदण्ड इवापरः ॥ १९ ॥
विधूमः कालाग्निरिव ब्रह्मदण्डश्च प्राज्वलत् ॥ १९ ॥
एवं रूपं वसिष्ठमुपश्लोकयन्तो देवाः पारक्यब्रह्मास्त्रतेजोग्रसनमेव निरवशेषतः कार्यमित्याहुः । ततोऽस्तुवन्-साधुसाध्वित्युपश्लोकितवन्तो मुनिगणाः हे ब्रह्मन् ते बलं-ब्रह्मबलं अमोघं अस्तु । अरातौ अविसर्जनेन अक्षीणमस्तु । किमुक्तं भवति ? प्रतिब्रह्मास्त्रं मा प्रयुङ्क्ष्वेति, पारक्यं तेजः स्वतेजसा सहजेन धारय, विलाप्यैकीकुरु ॥
निगृहीतस्त्वया ब्रह्मन् ! विश्वामित्रो महातपाः ।
प्रसीद जपतां श्रेष्ठ ! लोकाः सन्तु गतव्यथाः ॥ २१ ॥
ननु कथमरातौ स्थिते अप्रतिप्रयोग इत्यत्राहुः-निगृहीत इत्यादि । ब्रह्मास्त्रस्य च ग्रासे सति नष्टसर्वसामर्थ्यः स्वयमेव मृतप्रायो जात इत्यर्थः ॥ २१ ॥
एवमुक्तो महातेजाः शमं चक्रे महातपाः ।
[४]विश्वामित्रो विनिकृतो विनिश्वस्येदमब्रवीत् ॥ २२ ॥
शमं चक्रे इति । प्रतिप्रयोगतोऽरातिनाशनादुपरतोऽभूदित्यर्थः । विनिकृतः-तिरस्कृतसर्वशक्तिरित्यर्थः ॥ २२ ॥