च [१] नोपादानत्वेन वाऽसमवायिकारणत्वेन [२] वा शक्तिमाक्षिपति, किनामातीतलाक्षारसाव सेकापेक्षा नियमान्यथानुपपत्तेरतीन्द्रियं द्वारमस्यापेक्षानिर्वाहकमुपपादयति, सच
तज्जनितरूपारेणैवोपपद्यमानो[३] नान्यत्कल्पयिष्यतीति । एतेनापराजितालताकुसुमवैचित्र्यं व्याख्यातम् ।
वेगासिद्धेस्तथापि त्रैविध्यमनुपपन्नम् । स हि नानुभवादेव
न्यायलीलावतकिण्ठाभरणम्
णिमैत्र, चिरातीतस्य लौहित्यजनकता तु तेजः संयोगसहकारितामापद्य परमाणुपु पाकजोत्पादकत्वेनैवेति न किञ्चिदनुपपन्नमित्यर्थः । एवं प्रतिविधिना (?) तदभावादौ वटादौ अधिवालविधिना शक्त्याधानमपास्तम् ।
न्यायलीलावतीप्रकाशः
संस्कारो जन्यत इत्यर्थः । यद्यप्यधर्मजनने प्रेक्षावतां प्रवृत्तिर्न स्यात् धर्मजनने तु तदङ्गाचमनादिव्यतिरेके ततः फलानुत्पत्तिः, तथापि धर्मजनकमात्रे नाचमनाद्यन्वयः, किन्तु यत्र तदुपदेशस्तत्रैव, अत एव यत्राभिमन्त्रणादावपि तदुपदेशस्तत्र तदनुष्ठीयत एव । स चेति । अरु णिमेत्यर्थः । तज्जनितेति । लाक्षारसाव से कज नितपाकजद्वारेणेत्यर्थः । वृक्षकाण्डादौ पाकजरूपादेर्योग्यानुपलम्भात् विशेषानाधानेऽपि बीजावष्टब्धेषु परमाणुष्वेव पाकजो विशेष आधीयते तदारब्धाश्चाव यवा अन्तर्वर्त्तमाना इति न तदुपलम्भ इति भावः । एतेनेति । तत्रापि क्षीर त्रिफलाजल मिश्रीभाव एव पाकजप्रयोजक इत्यर्थः ।
न्यायलीलावतीप्रकाशविवृतिः
नच त्यजगत्योः पर्यायतापत्तिः, ज्ञाने विशेषणीभूतस्यापि संयोगस्थ फलजनक तायामुपलक्षणत्वादिति दिक् । नियमानुकर्षणे तस्य द्वारा निर्वाह्यत्वमत आह अरुणिमेति । स्वतन्त्रस्य लाक्षारसावलेकस्य न रूपजनकत्वमतः पाकमन्तर्भाव्य व्याचष्टे लाक्षारसेति । पाकपदं पाकजरूपपरम् । कचित्पाठोऽपि तथा | पाकजो विशेष इति । अरु णमलझणः,