व्यवस्थाप्यते, चिरेण गच्छतीतिवत् शीघ्र कर्मक्ष णोत्पादभेदालम्वनत्वात् [१] । न च रयेण भ्रमत्यलातचक्रमित्यत्रैक प्रत्ययविपथभ्रमेण भेदाग्रह [२] दाशुत्पादानाकल नाद्वेगसिद्धिरिति वाच्य-
न्यायलीलावतीकण्ठाभरणम्
ननु वेगेन गच्छनीति प्रतीतिरेव तत्र मानमित्याह चिरेणेति । अन्यथा चिरत्वमपि गुणान्तरं स्यादिति भावः । ननु रयेण भ्रमत्यलातचक्रमित्यत्र भ्रमणस्य एकत्वं गृह्यते, तच्च न सम्भवति भ्रमणाख्यकर्मणां वस्तुगत्या नानात्वात्तथाच यस्यैकत्वं गृह्यते स एव वेग इत्याह नचेति । ननु भ्रमणाद् भेदाग्रह एव कथमित्यत आह आशूत्पादानाकलनादिति । स्यादप्येवं यदि भ्रमणाभेदो गृह्येत तदेव तु ना-
न्यायलीलावतीप्रकाश:
ननु शीघ्रण गच्छतीत्यनुभवो वेगविषय इत्यत आह चिरेणेति । यथा चिरत्वं न गुणस्तथा शीघ्रत्वमपीति तत्प्रतीत्योः कर्मक्षणभेद एव विषयः, अन्यथा चिरत्वमपि गुणान्तरं स्यादिति । एकप्रत्ययेति । एकताप्रत्यय विषये यो भ्रमस्तेनाभेदस्य ग्रहादित्यर्थः । तथाच एकताप्रत्ययलमानविषयेण भ्रमेण कर्मणामभेदग्रहादाशूत्पादस्तेषां गनह्यत्वम-
न्यायलीलावतीप्रकाशविवृतिः
तैरेव चारुणकुसुजोत्पत्तिरिति भावः । नन्वेवं ताहरापरमाणवारब्धाः स्थूलावयवा गृह्येरन्नत आह तदारब्धाश्चेति । वस्तुतोऽन्तर्वृत्तिभिस्तै परमाणुभिः कुसुमारम्भाव्यववानेनैव स्थूलावयवारम्भ इति बोध्यम् । यद्यपि बजिरिम्भकपरमाणोरल्पत्वात् कथं कुसुमलमूहस्य नादृशस्योत्पत्तिः, तथापि सिक्तपरमाणुसम्बन्धादेव सिक्तपरमाणुष्वपि तादृशं पाकजं रूपमिति कल्प्यते, अन्यथा शक्तिकल्पनेप्यसिक्तपर माणोरारम्भकत्वविरोधादिति भावः । चिरत्वमपीति । चिरेण शघ्रिणेति प्रतीत्योरविशेषे चिरत्वमपि गुणान्तरं स्यात्, यदि च चिरत्वप्रतीतेः कर्मविलम्बोत्पादविषयत्वं तदा शीघ्रपतीतेरपि तदाशूत्पादविषयत्वमिति । प्रत्ययविषयकम्र में निवारयति एकतेति । यत्रैव नानाकर्माणि एकताम्र मस्तत्रैवाभेदप्रत्ययो परिवर्थः । एकत्वं संख्या -